________________
२४२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
समवायः, "ज्ञानस्य गुणत्वात् गुणगुणिनोश्च समवायात्" इति नियमेनात्मनि ज्ञानं समवेतम् , तेन साध्यतावच्छेदकसम्बन्धेन समवायेन ज्ञानाधिकरणमात्मैवास्ति, नतु घटपटादिकमपि । एवं व्यत्वहेतोरधिकरणीभूते घटपटादौ वर्तमानो यः समवाय. सम्बन्धावच्छिन्नप्रतियोगिताकज्ञानात्मकसाध्यस्याभावः, तदभावीयप्रतियोगितावच्छेदकमेव ज्ञानत्वरूपं साध्यताऽवच्छेदकमित्यनवच्छेदकं साध्यताऽवच्छेदकं नास्ति, तत् कुतोऽतिव्याप्तिः । क्वचित्तु-"ज्ञानवान् सच्चात्" इति पाठः । . साध्यतावच्छेदकसम्बन्धविवक्षायाः फलान्तरमप्याह-"इत्थञ्च"-इति । समवायेन वह्निविरहसत्त्वे-समवायसम्बन्धाऽवच्छिन्नवह्निप्रतियोगिताकाऽभावस्य विद्यमानत्वेऽपि न क्षतिः=नाव्याप्तिरित्यर्थः ।
अस्याऽयमाशयः-प्रतियोग्यनधिकरणतायां साध्यताऽवच्छेदकसम्बन्धस्य निवेशेन "पर्वतो वह्निमान् धूमात्" इत्यत्र सद्धेतस्थलेऽव्याप्तिरपि न । अन्यथा संयोगेन धूमरूपहेत्वधिकरणे पर्वते समवायसम्बन्धाऽवच्छिन्नप्रतियोगिताकवह्निरूपसाध्यस्याऽ. भावोपि धर्तुं शक्यते, तदभावीयप्रतियोगितावच्छेदकमेव वह्नित्वम्, तदेव च साध्यता. वच्छेदकमित्यनवच्छेदकं साध्यतावच्छेदकं नास्तीत्यव्याप्तिरेव लक्षणस्य स्यात् । __यदा तु–प्रतियोग्यनधिकरणे साध्यतावच्छेदकसम्बन्धो गृह्येत, तदा प्रकृते संयोगसम्बन्धेन वह्निः साध्योऽस्तीति साध्यतावच्छेदकसम्बन्धः संयोगः, संयोगसम्बन्धेन हेत्वधिकरणे पर्वतादौ साध्याभावो नेतुम्ब्रह्मणापि न शक्यते, संयोगेन तत्र तस्य विद्यमानत्वात् । तस्माद्धेस्वधिकरणे पर्वते घटाद्यभावमादाय लक्षणं सङ्गमनीयम् , अर्थात् धूमात्मकहेत्वधिकरणे पर्वते घटाभावीयप्रतियोगितावच्छेदकं घटत्वम् , अनव. च्छेदकं साध्यतावच्छेदकं वह्नित्वम् , तदवच्छिन्न. साध्येन वह्निना सह धूमहेतोः सामानाधिकरण्यमस्त्येवेति लक्षणसङ्गतिः ।।
लक्षणस्य स्वरूपन्तु– “साध्यताऽवच्छेदकसम्बन्धाऽवच्छिन्ना या प्रतियोगिता, तादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोग्यनधिकरणं यद्धेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुताऽवच्छेदकाऽवच्छिन्नहेत्वधिकरणम्, तादृशहेत्वधिकरणवृत्यभावीयप्रतियोगिताऽनवच्छेदकं यत् साध्यताऽवच्छेदकं तदवच्छिन्नसाध्यसामानाऽधिकरण्यं व्याप्तिः” इति जातम् ।
* ननु-"ज्ञानवान् द्रव्यत्वात्" इत्यत्र प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिस्वविवक्षणेऽपि नातिव्याप्तिः, हेत्वधिकरणे घटादौ प्रतियोगितावच्छेदकीभूतसमवायसम्बन्धेन ज्ञाना. भावप्रतियोगिनो ज्ञानस्याऽनधिकरणत्वस्य सत्त्वादत आह-"इत्थञ्च"- इति । यदि चअग्रिमे साध्याभावप्रतियोगित्वे साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वमिति विवक्षां कृत्वा “वह्निमान् धूमात्" इत्यत्र समवायेन वह्नयभावमादायाऽव्याप्तिर्वार्यते तर्हि सम्बन्धस्य द्विधा निवेशप्रयुक्तं गौरवं स्यादिति भावः।