________________
व्याप्तेः सिद्धान्तलक्षणपरिष्कारः।
२४१
नास्ति, इष्टञ्चानवच्छेदकं साध्यतावच्छेदकम् , तस्मात्प्रकृतेऽनवच्छेदकसाध्यतावच्छेदकाभावादतिव्याप्तेर्गन्धोऽपि नास्ति । ___एवं सति लक्षणस्यायमाकारः--"प्रतियोगितावच्छेदकावच्छिन्नप्रतियोग्यनधिकरणीभूतं यद्धेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुतावच्छेदकावच्छिन्नहेत्वधिकरणं तादृशहेत्वधिकरणवृत्तिर्योऽभावः तदभावीयप्रतियोगितानवच्छेदकं यत्साध्यतावच्छेदकं तदवच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिः" ।
(मुक्का०) एवं साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणत्व. म्बोध्यम् । तेन ज्ञानवान् द्रव्यत्वादित्यादौ द्रव्यत्वाधिकरणघटादेविषयतासम्बन्धेन ज्ञानाधिकरणत्वेऽपि न क्षतिः। इत्थश्च वह्निमान् धूमादित्यादौ धूमाधिकरणे समवायेन वह्निविरहसवेऽपि न क्षतिः।
(प्रभा०) स्थलान्तरेऽतिव्याप्तिं वारयितुम्प्रतियोग्यनधिकरणत्वे साध्यताsवच्छेदकसम्बन्धं विवक्षन्नाह-"एवम्" इति । हेत्वधिकरणे यत्प्रतियोग्यनधिकरणत्वम्प्रागुनं तदपि साध्यतावच्छेदकसम्बन्धेन बोध्यम्, नतु येन केनचित् सम्बन्धेनेत्यर्थः । अन्यथा-"प्रात्मा ज्ञानवान् द्रव्यत्वात्" इत्यत्र समवायेन साध्यहेतुकस्थलेऽतिव्याप्तिः स्यात् । *अस्य फलमाह-“तेन"-इति । तेन साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणत्वविवक्षणेन "प्रारमा ज्ञानवान् द्रव्यत्वात्" इत्यादौ न क्षति:= नातिव्याप्तिरिति सम्बन्धः।
अस्यायमभिप्रायः-यदि हेत्वधिकरणे यत् प्रतियोग्यनधिकरणत्वं तत्र साध्यतावच्छेदकसम्बन्धस्य विवक्षा न क्रियेत तदा "प्रात्मा ज्ञानवान् द्रव्यत्वात्" इत्यत्र समवायेन साध्यहेतुके व्यभिचारस्थलेऽतिव्याप्तिरापतेत्, अर्थात् द्रव्यत्वहेतोयभिचारस्थलं घटपटादिकमस्ति, यतस्तत्राप्यस्ति द्रव्यत्वं हेतुः, परं समवायसम्बन्धावच्छिन्नम्ज्ञानरूपं साध्यं नास्तीति साध्याभावववृत्तित्वादस्ति द्रव्यत्वं हेतुयभिचारी । यद्यप्येवं तथाप्यस्माभिर्ज्ञानरूपसाध्यस्याभावो न मन्यते यतो "विषयतासम्बन्धेन" घटपटादिष्वपि ज्ञानं साध्यम्, अथ च तत्र द्रव्यत्वं हेतुरपि, तस्मात्साध्याभावस्तु तत्र न लक्षणघटकः, किन्तूदासीनघटपटाद्यभावं नीत्वा लक्षणं घटयिष्यामः । अभावीयप्रतियोगितावच्छेदकञ्च घटत्वम्पटत्वं वा भविष्यति, अनवच्छेदकं साध्यतावच्छेदकं ज्ञानत्वम् , तदवच्छिन्नं साध्यज्ञानम्, तेन साध्येन सह द्रव्यत्वरूपहेतोः आत्मरूपे पक्षे ( हेत्वधिकरणे) सामानाधिकरण्यमस्त्येवेति रीत्या व्यभिचारिणि लक्षणं सक्रान्तमिति जातैवातिव्याप्तिः।
यदा तु प्रतियोग्यनधिकरणतायां साध्यतावच्छेदकसम्बन्धी नीयेत तदा नोक्तदोषः । तथाहि-प्रकृते साध्यज्ञानम्, साध्यता ज्ञाननिष्ठा, साध्यतावच्छेदकसम्बन्धः
* साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणत्वविवक्षणस्येत्यर्थः। .. .