________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुकावल्याः
[ श्रनुमानखण्डे प्रायेणैव "*स्वप्रतियोग्यनधिकर णीभूतहेत्वधिकरणवृत्यभाव इति निष्कर्ष :" इत्युक्रम् । प्रतियोगिव्यधिकरणहेतुसमानाधिकरणाभावान्तनिष्कर्ष इत्यर्थः । तथाच लक्षणाऽऽकारः-- "स्वप्रतियोग्यनधिकरणीभूतं यद्धेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुतावच्छेदका वच्छिन्नहेत्यधिकरणम्, तादृशहेत्वधिकरणवृत्तिर्योऽभावः, तदभावीयप्रतियोगितानवच्छेदकं यत्साध्यतावच्छेदकं तदवच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिः” ।
( मुका० ) प्रतियोग्यनधिकरणत्वम्प्रतियोगिताऽवच्छेदकावच्छिन्नाऽनधिकरणत्वं वाच्यम् । तेन विशिष्टसत्तावान् जातेरित्यादौ जात्यधिकरणगुणादौ विशिष्टसत्ताभावप्रतियोगिसत्ताधिकरणत्वेऽपि न क्षतिः ।
;
( प्रभा० ) स्थलान्तरेऽतिव्याप्तिपरिहाराय लक्षणान्तर्गतप्रतियोग्यनधिकरणपदस्य विवक्षितमर्थं दर्शयितुमाह-- " प्रतियोग्यनधिकरणत्वम् " - - इति । प्रतियोग्यनधिकरणीभूते त्वधिकरणे प्रतियोगिताऽवच्छेदकावच्छिन्नाऽनधिकरणम् श्रभावीयप्रति - योगिताया श्रवच्छेदको यो धर्मः, तदवच्छिन्नस्यानधिकरणत्वं ज्ञेयम् । तेन = श्राधेतायां प्रतियोगितावच्छेदकावच्छिन्नत्वविवक्षणेन । “विशिष्टसत्तावान् जातेः" इत्यत्र न जतिः - नातिव्याप्तिरिति सम्बन्धः । अस्य प्रघट्टकस्यायमाशयः -- यदि प्रतियोग्यनधिकरणपदेन प्रतियोगितावच्छेदकावच्छिन्नस्यानधिकरणमित्यर्थो न गृह्येत, तदा "घटो विशिष्टसत्तावान् जातेः" इत्यत्रासद्धे तावेवातिव्याप्तिरापतेत् । तथाहि-- श्रस्य “जातेः” इति हेतोरनैकान्तिकस्य व्यभिचारस्थले गुणो वा कर्म वा यतः साध्यं गुणकर्मान्यत्वविशिष्टसत्ता, साध्याभावो गुणकर्मान्यत्वविशिष्टसत्ताभावः तद्वान् गुणः कमपीति साध्याभाववद्वृत्तित्वाज्जातिहेतुर्घ्यभिचारी | परमत्र व्यभिचारस्थले जातिरूपraftar गुणे कर्मणि च विशिष्टसत्ताभावो नेतुं न शक्यते " विशिष्टं शुद्धान्नातिरिच्यते" इति न्यायात्, विशिष्टसत्ताभावस्य प्रतियोगिन्येव शुद्धसत्ता, तस्याः शुद्धसत्ताया भावस्तु जातिरूप हेत्वधिकरणे गुणे कर्मणि वा नास्त्येव, शुद्धसत्तायाः त्रिष्वनुगतत्वेन गुणकर्मानुगतत्वात् । तस्मात्साध्याभावस्य लक्षणाऽघटकत्वात् धर्त्तव्योऽत्र घटाभावः पटाभावो वा, तस्य प्रतियोगी घटः पटो वा प्रतियोगितावच्छेदकत्वं घटत्वपटत्वं वा, अनवच्छेदकं यत्साध्यतावच्छेदेन विशिष्टसत्तात्वम्, तादृश ( तदवच्छिन्न) - साध्येन सह ( शुद्धसत्तानतिरिक्कीभूतेन ) जातिरूपहेतोर्गुणकर्मण्यपि सामानाधिकरण्यमित्यलक्ष्ये लक्षणगमनरूपातिव्याप्तिरागतैव ।
२४०
7
यदि तु - प्रतियोग्यनधिकरणं यद्धेत्वधिकरणं तत् प्रतियोगितावच्छेदकधर्मावच्छिन्नस्याऽनधिकरणमित्युच्येत तदा जातिरूपहेत्वधिकरणे गुणादौ विशिष्टसत्तात्वेन विशिष्टसत्ताया श्रभावो मिलिष्यत्येव । तादृशाभावस्य प्रतियोगिनी विशिष्टसत्ता, प्रतियोगितावच्छेदकधर्मो विशिष्टसत्तात्वम्, तदेव च साध्यतावच्छेदकम्, अनवच्छेदकं
* स्वप्रतियोगितावच्छेदकावच्छिन्नाधेयतानिरूपिताधिकरणतावच्छिन्नत्वमिति पर्यवासितार्थः ।
1