________________
व्याप्ते: सिद्धान्तलक्षणपरिष्कारः।
२३६
भावस्तु न स्वप्रतियोग्यधिकरणावृत्तिः, किन्तु स्वप्रतियोग्यधिकरणवृत्तिरेवेति नासौ लक्षणघटकः । किन्तु-हेत्वधिकरणवृत्त्यभाव: प्रकृते घटाद्यभाव एव धर्तव्यः, तादृशाभावीयप्रतियोगितावच्छेदकं घटत्वपटत्वादिकम् , अनवच्छेदकं साध्यतावच्छेदकं कपिसंयोगत्वम् , तदवच्छिन्नकपिसंयोगात्मकसाध्यसामानाधिकरण्यमेतद्वृक्षत्वरूपहेतोरस्त्येवेति न दोषगन्धोऽपि । तथापि-“घटः संयोगवान् सत्त्वात्" इत्यत्र संयोगरूपसाध्याभाववति गुणकर्मादौ वर्तमानो यः सत्त्वरूपो व्यभिचारी हेतुः, तत्रासद्धेतावतिव्याप्तिरायात्येव । कथमिति चेत् ? इत्थम्-उकरीत्या प्रतियोगिव्यधिकरणपदेन यः प्रतियोग्यधिकरणाऽवृत्तित्वरूपोऽर्थो विवक्षितः, तेनात्र व्यभिचारस्थले गुणकर्मादौ यद्यपि संयोगरूपस्य साध्याभावस्याऽभावो नेतुं सुशकस्तथाप्यसौ न लक्षणघटकः, यतः स्वप्रतियोग्यधिकरणवृत्तिरव्याप्यवृत्तित्वात् स्वप्रतियोग्यधिकरणावृत्तिर्नास्ति । एवमत्रापि हेतोः सत्त्वस्याधिकरणे गुणकर्मादौ वर्त्तते यो घटाद्यभावः तदभावीयप्रतियोगितावच्छेदकं घटत्वादिकम् , अनवच्छेदकं साध्यतावच्छेदकं संयोगत्वम् , तदवच्छिन्नसंयोगात्मकसाध्यसामानाधिकरण्यं सत्त्वहेतोर्वर्त्तत इत्यलये लक्षणगमनरूपातिव्याप्तिर्दुर्वारा ।
तदेतत्समाधत्ते-"हेत्वधिकरण"--इति । हेत्वधिकरणे-पक्षे । प्रतियोग्यनधिकरणवृत्तित्वविशिष्टस्य अभावस्य विवक्षितत्वात् इष्टत्वादिति पदार्थः । ।
अत्र समाधानकर्तुरयमभिप्राय:--हेत्वधिकरणवृत्त्यभावीयविशेषणीभूतप्रतियोगिब्यधिकरणपदस्य न तादृशोऽर्थो विवक्षितो यादृशो भवता विकल्पितः । किन्तु"प्रतियोगिव्यधिकरण"पदेन प्रतियोग्यनधिकरणवृत्तित्वविशिष्टस्याभावस्य हेत्वधिकरणे विवक्षा क्रियतेऽस्माभिः । अर्थात्--हेत्वधिकरणवृत्त्यभावो यः स्वप्रतियोग्यनधिकरणीभूते हेत्वधिकरणे वर्तते, असावुकपदेन विवक्षितः । हेत्वधिकरणे वर्तमानो योऽभाव: स एवम्भूतः स्यात् यः स्वप्रतियोगिनोऽनधिकरणीभूतं यद्धेत्वधिकरणं तत्र वर्तेत । तेन भवद्दर्शिते स्थलद्वयेऽपि नास्ति दोषः ।
तथाहि--"वृक्षः कपिसंयोगी एतवृक्षत्वात्" इत्यत्र कपिसंयोगाभावः स्वप्रतियोग्यनधिकरणीभूतः सन् हेत्वधिकरणवृत्त्यभावस्तु भवितुं नार्हति । यद्यप्यसौ हेत्वधिकरणे वृक्ष मूलावच्छेदेन वर्तते, तथाप्यसौ प्रतियोग्यनधिकरणीभूते हेतोरेतवृक्षत्वस्याधिकरणे न वर्तते, किन्तु प्रतियोग्यधिकरणीभूते हेत्वधिकरणे एव वर्तते, ततश्च घटाद्यभावमादाय लक्षणं सङ्गमय्यऽव्याप्तिम्परिहरिष्याम इति नात्र काचिच्चिन्ता।
एवम्-“घटः संयोगवान् सत्त्वात्' इत्यत्रासद्धेतावतिव्याप्तिरंपि नास्ति । अर्थात् सत्तात्मकहेतोरधिकरणे गुणकर्मादौ वर्तमानो यः संयोगरूपसाध्यस्याभावः तस्य प्रतियोगी संयोगः, तदनधिकरणीभूतः सत्त्वरूपहेतोरधिकरणीभूतश्च गुणः कर्म वा, तवृत्तिरेव संयोगाभावः, तादृशाभावीयप्रतियोगिताऽवच्छेदकं साध्यताऽवच्छेदकन्च संयोगत्वमस्ति अनवच्छेदकं नास्तीति लक्षणाऽसङ्गतेरतिव्याप्ति(रापास्ता । एतदभि