________________
२३८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
वृत्तित्वादिति वाच्यम्, हेत्वधिकरणे प्रतियोग्यनधिकरणवृत्तित्वविशिष्टस्य विवक्षितत्वात् । “स्वप्रतियोग्यनधिकरणीभूतहेत्वधिकरणवृत्त्यभाव" इति निष्कर्षः।
(प्रभा०) प्रकारान्तरेणोक्तस्थलेऽव्याप्तिमाशङ्कते--"नच"--इति । "नच"-- इत्यारभ्य "वाच्यम्"--इत्यन्तः पूर्वपक्षप्रन्थः । “हेत्वधिकरणे"--इत्यारभ्य "निष्कर्षः" इत्यन्तः समाधानग्रन्थः ।
__उक्रव्याप्तिलक्षणेऽभावविषये सिद्धान्तिना "कपिसंयोग्येतत्वात्" इत्यत्र अव्याप्तिपरिहाराय या अभावस्य प्रतियोगिव्याधिकरणत्वेन रूपेण विवक्षा कृता तां विकल्प्य दूषयति पूर्वपक्षी--"प्रतियोगिव्यधिकरणत्वम्" --इति ।
अत्रायमाशयः पूर्वपक्षिण:- "प्रतियोगिव्यधिकरण"पदेन किं स्वप्रतियोग्यनधिकरणवृत्तित्वम् ? अथवा स्वप्रतियोग्यधिकरणाऽवृत्तित्वम् ? इत्यर्थोऽभिप्रेत इत्यस्ति विकल्पद्वयम् । यदि प्रथमः पतः स्वीक्रियेत, अर्थात् स्वस्य-अभावस्य यः प्रतियोगी तस्य यद् अनधिकरणम् . तदधिकरणभिन्नाधिकरणं तद्वृत्तिर्योऽभावः स इष्ट इति, तदा "वृत्तः कपिसंयोगी एतवृक्षत्वात्" इत्यत्र तदवस्थैवाव्याप्तिः । कुतः स्वप्रति. योग्यधिकरणभिन्नाधिकरणं प्रतियोग्यनधिकरणमित्येव त्वयोकम् । प्रकृते च "स्व" कपिसंयोगाभावः, तस्य प्रतियोगी कपिसंयोगः, तस्यानधिकरणं गुणकर्मादिः, गुणे गुणानङ्गीकारात्, अर्थात् कपिसंयोगाधिकरणं यो वृक्षः, तद्भिन्नो गुणादिः, तत्र वर्तमानो यः कपिसंयोगाभावः, स एव मूलावच्छेदेन वृक्षेऽपि वर्तत. इति तस्य प्रतियोगिताया अवच्छेदकमेव कपिसंयोगत्वम् , अनवच्छेदकं साध्यतावच्छेदकं नास्तीति पुनरप्यव्याप्तिः । अधिकरणभेदेनाऽभावभेदानङ्गीकारात्-अर्थादनेकेष्वधिकरणेष्वेक एवाभावो वर्तत एत्येके मन्यन्ते । एवं नये गुणकर्मवृत्तिर्मूलावच्छेदेन वृक्षवृत्तिश्च यः कपिसंयोगाभावः स एक एव । तस्य प्रतियोगी कपिसंयोगः, अभावीयप्रतियोगितावच्छेदकत्वं कपिसंयोगत्वम् , तदेव साध्यतावच्छेदकञ्जातम् , इष्टन्त्वनवच्छेदकं साध्यतावच्छेदकमितिरव्याप्तिरेवेत्यर्थः।
यद्युक्तांक्षेपपरिहाराय सिद्धान्ती द्वितीयम्पक्षमाश्रयेत अर्थात् प्रतियोगिव्यधिकरणपदस्य स्वप्रतियोग्यधिकरणाऽवृत्तित्वरूपमर्थं स्वीकुर्यात् । हेत्वधिकरणवृत्त्यभावः स्वप्रतियोग्यधिकरणे न वर्तेत इति तदाशयः स्यात् । तदा यद्यपि "वृक्षः कपिसंयोगी एतद्वृक्षत्वात्" इत्यत्र नोक्नदोषः सम्भवेत्, यतः संयोगस्यायं स्वभावो यदयं स्वाधिकरणे द्रव्ये किञ्चिदवयवावच्छेदेन वर्तते, किञ्चिदवरावावच्छेदेन च न वर्त्तते । अत एवायम्-"श्रव्याप्यवृत्तिः" इति बाभाष्यते तीर्थकारैः । प्रकृते चाव्याप्यवृत्तिः कपिसंयोगः हेतोरेतवृक्षत्वरूपस्याधिकरणीभूते वृक्षे वर्तमानस्य कपिसंयोगाभावस्य समानाधिकरणवृत्तिरस्ति, इष्टश्चास्माकम्प्रतियोग्यधिकरणावृत्तिरभावः । कपिसंयोगा