________________
व्याप्तेः सिद्धान्तलक्षणपरिष्कारः ।
( प्रभा० ) उक्तलक्षणे कीदृशोऽभावो विवक्षित इति स्थलान्तरेऽव्याप्तिवारणाय श्रभावं विशिनष्टि – “श्रभावश्च" - इति । प्रकृतव्याप्तिलक्षणेऽभावः - हेत्वधिकरणवृत्यभावः, प्रतियोगिव्यधिकरणः =प्रतियोग्यधिकरणभिन्नाधिकरणः । श्रर्थात् स्वप्रतियोग्यधिकरणभिन्नाधिकरणवान् बोध्यः = विवक्षित इत्यर्थः । उक्तविवक्षाफलं दर्शयति“तेन” – इत्यादिना । मूलावच्छेदेन=मूलदेशेन ।
श्रयमाशयः - हेत्वधिकरणवृत्तिर्योऽभावः स प्रतियोगिव्यधिकरणः स्यात् । अर्थात् श्रभावः तत्प्रतियोगी चेतौ द्वावप्येकाधिकरणवृत्ती न स्याताम् । यद्येवं न स्यात् तदा—“श्रयं वृक्षः कपिसंयोगी एतद्वृक्षत्वात्" अत्रैवाव्याप्तिः स्यात् । कथमिि चेत् ? इत्थम् - श्रत्र हेतुः "एतद्वृक्षत्वात् " ( पुरोवर्त्तिवृक्षत्वात् ) इति । हेतुतावच्छेदकमेतद्वृक्षत्वत्वम्, तदवच्छिन्नमेतद्वृत्तत्वम्, तन्निष्ठा याऽऽधेयता, तादृशाधेयतानिरूपिताऽधिकरणता एतद्वृचे, अर्थात् - स्वरूपसम्बन्धावच्छिन्नैतद् वृक्षत्वावच्छिन्नैः तद्वृक्षत्वस्याधिकरणं य एतद्वृक्षः तस्मिन् एतादृशहेत्वधिकरणे एतद्वृते वर्त्तमानो यो "मूलावच्छेदेन कपिसंयोगो नास्ति" इत्याकारकः कपिसंयोगाभावः, तत्प्रतियोगी कपिसंयोगः, तदभावीयप्रतियोगिता कपिसंयोगनिष्ठा, तस्याः प्रतियोगिताया श्रवच्छेदक एव कपिसंयोगत्वरूपो धर्मः, स एव च साध्यतावच्छेदकोऽस्ति । " प्रभावीयप्रतियोगितानवच्छेदकं यत्साध्यतावच्छेदकम्” इति लक्षणनिरीक्षितोऽनवच्छेदको नास्ति, तस्मादव्याप्तिर्लक्षणस्य ।
यदि तु हेत्वधिकरणवृत्त्यभावः प्रतियोगिव्यधिकरणो विवक्षितः स्यात् तदा नास्ति दोष:, यतो मूलावच्छेदेन वर्त्तमानः कपिसंयोगाभावो यः साध्याभावः, स नास्ति लक्षणघटकः, * स्वप्रतियोगिव्यधिकरणत्वाभावात् । किन्तु -- लक्षणघटकोऽभावः घटाभावः पटाभावो वा, तत्प्रतियोगितावच्छेदकं यथायथं घटत्वम्पटत्वं वा, अनवच्छेदकं यत्साध्यतावच्छेदकं कपिसंयोगत्वम्, तदवच्छिन्न कपिसंयोगरूपसाध्येन सहैतद्वृक्षत्वरूपहेतोः सामानाधिकरण्यमस्तीति नाव्याप्तिः ।
२३७
( मुक्का० ) नच प्रतियोगिव्यधिकरणत्वं यदि प्रतियोग्यनधिकरणवृत्तित्वं तदा तथैवाव्याप्तिः । प्रतियोगिनः कपिसंयोगस्यानधिकरणे गुणादौ वर्तमानो यो भावस्तस्यैव वृक्षेऽपि मूलावच्छेदेन सत्त्वात् । यदि तु प्रतियोग्यधिकरणावृत्तित्वं तदा संयोगी सत्त्वादित्यादावतिव्याप्तिः । सत्ताधिकरणे गुणादौ यः संयोगाभावस्तस्य प्रतियोग्यधिकरणद्रव्य
* "स्व" पदेन कपिसंयोगाभावो गृह्यते, तस्य प्रतियोगी कपिसंयोग एव सच स्वाभाव - समानाधिकरणत्वाद्व्यत्रिकरणो नास्ति । यद्यप्यवच्छेदकभेदेन कपिसंयोगतदभावाधिकरणता भिन्नै तथापि पुरोवर्त्तिवृक्षत्वाधिकरणतासामानाधिकरण्येन तस्य व्यधिकरणत्वं नास्तीत्यत एव तस्य लक्षणघटकताऽपि नास्तीति कृत्वा लक्षणघटको घटाद्यभाव एव गृहीतः ।