________________
२३६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
पटे पक्षे घटाभावो वा गृह्येत, यथायोगं तत्प्रतियोगिता पटादिनिष्ठा, अवच्छेदकं पटत्वादिकम् , अनवच्छेदकं साध्यतावच्छेदकं द्रव्यत्वत्वम् , * तदवच्छिन्नस.ध्येन सह
गुणकर्मान्यत्वविशिष्टसत्तात्वाऽवच्छिन्नहेतोः सामानाधिकरण्यमस्तीति समन्वये नाब्याप्तिगन्धोऽस्ति ।
(मुक्ता०) एवं हेतुतावच्छेदकसम्बन्धेन हेत्वधिकरणम्बोध्यम् । तेन समवायेन धूमाधिकरणतदवयवनिष्ठाभावप्रतियोगित्वेपि वह्न व्याप्तिः ।
(प्रभा०) हेत्वधिकरणे हेतुतावच्छेदकसम्बन्धविवक्षां दर्शयति-"एवम्"इति । तस्य फलमाह-"तेन"-इति । अस्यायमाशयः-यथा हेतुतावच्छेदकविशिष्टाधिकरणत्वेन हेत्वधिकरणमिष्टं तथैव हेतुतावच्छेदकसम्बन्धेनापि हेत्वधिकरणम्बोध्यम् । यद्येवं विवक्षा न क्रियेत तदा प्रसिद्धानुमान एवान्याप्तिः । तथाहि"वह्निमान् धूमात्" इत्यत्र “धूम"हेतोरधिकरणं यथा पर्वतः तथा समवायेन धूमावयवोऽपि तदधिकरणम् । तत्र “धूमावयवे वह्निर्नास्ति" इत्याकारोऽभावोऽपि प्रतीयते तादृशाभावप्रतियोगी वह्निरेव साध्यः । प्रतियोगितावच्छेदकञ्च वह्नित्वमित्य नवच्छेदक साध्यतावच्छेदकं नास्ति, तस्मादव्याप्तिर्लक्षणदोषः । यदि तु-हेत्वधिकरणं हेतुतावच्छेदकसम्बन्धावच्छिन्नाधिकरणं विवक्षितं तदा प्रकृते हेतुधूमः, हेतुता धूमनिष्टा, हेतुतावच्छेदकसम्बन्धः संयोगसम्बन्धः तेन सम्बन्धेन हेत्वधिकरणम्पर्वतः पक्षोऽस्ति, नतु धूमावयवः, स तु समवायेन धूमाधिकरणम् (नतु संयोगेन) समवायश्च प्रकृते न हेतुतावच्छेदकसम्बन्धः । एवं हेतुतावच्छेदकसंयोगसम्बन्धावच्छिन्नधूमाधिकरणे पर्वते वढ्यभावो ग्रहीतुं न शक्यते तत्र तस्य सत्त्वात् । शक्यते तु ग्रहीतुं घटाभावः पटाभावो का, तादृशाभावीया प्रतियोगिता घटपटनिष्ठा, प्रतियोगितावच्छेदकं घटत्व. म्पटत्वं वा, उनाभावीयप्रतियोगितानवच्छेदकं यत्साध्यतावच्छेदकं वह्नित्वम् , तदवच्छिन्नसाध्येन सह धूमहेतोः सामानाधिकरण्यमस्तीति नाव्याप्तिः । लक्षणस्य स्वरूपन्तु-"हेतुताऽवच्छेदकसम्बन्धाऽवच्छिन्नहेतुताऽवच्छेदकावच्छिन्नहेत्वधिकरणवृत्यभावीयप्रतियोगितानवच्छेदकं यत्साध्यतावच्छेदकं तदवच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिः" इति सम्पन्नम् ।।
(मुक्का०) अभावश्व प्रतियोगिव्यधिकरणो बोध्यः । तेन कपिसंयोगी एतवृक्षत्वादित्यत्र मूलावच्छेदेनैव एतवृक्षवृत्तिकपिसंयोगाभावप्रति. योगित्वेऽपि कपिसंयोगस्य नाव्याप्तिः ।
ॐ द्रव्यत्वत्वावच्छिन्नेन द्रव्यत्वेन साध्येन ।
+ अर्थात् द्रव्यत्वत्वावच्छिन्नं द्रव्यत्वं यत्र तिष्ठति तत्र गुणकर्मभेदविशिष्टा सत्तापि वर्त्तत एव ।
* "वह्निमान् धूमात्" इत्यत्राव्याप्तिमुद्धर्तुमिति शेषः ।