________________
व्याप्तेः सिद्धान्तलक्षणपरिष्कारः ।
द्रूपेषु वर्तते, तादृशप्रतियोगिताया अवच्छेदिका रूपत्वव्याप्यनीलत्वपीतत्वजातयः, अभावीयप्रतियोगिताऽवच्छेदकताया अनवच्छेदकं साध्यताऽवच्छेदकताऽवच्छेदकच्च रूपत्वव्याप्यजातित्वम् , तदवच्छिन्ना रूपत्वव्याप्यजातयः, तदवच्छिन्ना नीलपीतादिगुणाः, त एव च समवायेन साध्याः, तादृशसाध्येन सह पृथिवीत्वहेतोरेकस्मिन् घंटे पक्षे सामानाधिकरण्यम्=एकाश्रयवृत्तित्वमस्तीति दर्शितलक्षणसङ्गतिः सुसम्पन्ना ।
___ एवम् "मठो दण्डिमान्'- इत्यत्रापि हेतुर्दण्डसंयोगः, हेत्वधिकरणं मठ:=पक्षः, हेत्वधिकरणवृत्त्यभावीया प्रतियोगिता तत्तद्दण्डिनिष्ठा, प्रतियोगितावच्छेदको धर्मो दण्डः, तादृशाऽभावीयप्रतियोगिताऽवच्छेदकताया अनवच्छेदकं साध्यताऽवच्छेदकताऽवच्छेदकं दण्डत्वम् , तदवच्छिन्नो दण्डः, तदवच्छिन्नो दण्डी संयोगेन साध्यः, तादृशसाध्येन सह दण्डिसंयोगरूपहेतोः सामानाधिकरण्यमस्त्येवेति नाव्याप्तिदोषः ।
(मुका०) हेत्वधिकरणश्व हेतुतावच्छेदकविशिष्टाधिकरणं वाच्यम्, तेन द्रव्यं गुणकर्मान्यत्वविशिष्टसत्त्वादित्यादौ शुद्धसत्ताधिकरणगुणादिनिष्ठाभावप्रतियोगित्वेऽपि द्रव्यत्वस्य नाव्याप्तिः ।
(प्रभा०) स्थलान्तरेऽव्याप्तेरुद्धाराय लक्षणगतहेत्वधिकरणपदेन विवक्षितमर्थं दर्शयति-"हेत्वधिकरणम्" इति । “हेतुतावच्छेदक"-इति । हेतुतावच्छेदको यो धर्म: तद्विशिष्टस्याधिकरणम् "हेत्वधिकरण"पदेन ग्राह्यम् । अन्यथा "द्रव्यं गुणकर्मान्यत्वविशिष्टसत्त्वात्' इत्यत्रैवाव्याप्तिः स्यात् । कथमिति चेत् ? शृणु-"विशिष्टं शुद्धान्नातिरिच्यते" इत्यस्ति नियमः। अनेन नियमेन विशिष्टसत्ता शुद्धसत्ता चैकैव सत्ता । तयोरेकरूपत्वेन यथा घटादिद्रव्यं गुणकर्मान्यत्वविशिष्टसत्ताधिकरणं तथा गुणकर्माप्यस्ति, तद्वृत्तियोऽभावः अर्थात् गुणकर्मवृत्तिर्योऽभाव: "द्रव्यत्वं नास्ति' इत्याकारकः तादृशाभावीयप्रतियोगिता द्रव्यत्वरूपसाध्यनिष्ठा, तस्या अवच्छेदकमेव द्रव्यत्वरूपं साध्यतावच्छेदकजातम् , अनवच्छेदकं नास्ति, इष्यते च लक्षणे हेत्वधिकरणवृत्यभावीयप्रतियोगितानवच्छेदकं साध्यतावच्छेदकमिति कथं नाव्याप्तिः।
___ * यदि तु हेत्वधिकरणं हेतुतावच्छेदकविशिष्टाधिकरणं गृह्येत तदा न दोषः । तथाहि-यद्यपि गुणकर्मान्यत्वविशिष्टसत्ता शुद्धसत्तातो न भिद्यते, तथापि "गुणकर्मान्यत्वविशिष्टसत्तास्वेन" हेतुतावच्छेदकरूपेण सा भिन्नवास्ति । तस्याः अधिकरणं केवलं घटपटादिव्यमेव न गुणो न वा कर्मेति, तादृशहेतोः हेतुतावच्छेदकविशिष्टहेतोः अधिकरणे घटादिपक्षे द्रव्यत्वसाध्यस्याभावस्तु नेतुं न शक्यते, तत्र तस्य विद्यमानत्वात्, अत्यन्ताभावस्य प्रतियोगिना सह विरोधाच्च । किन्तु घटे पक्षे पटाभावः,
__ “यदि तु"-इति । अत्र विशिष्टशुद्धयोरक्येऽपि शुद्धाऽधिकरणतातो विशिष्टाऽधिकरणता विलक्षणव । यथा हस्तविशिष्टं वस्त्रं वस्त्रञ्चैकमपि, हस्तविशिष्टवस्त्राधिकरणता तु तत्रैव । यत्र हस्तो धृतः, अन्यत्र तु शुद्धवस्त्राधिकरणता ।