________________
२३४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
इत्याशयेनैवाह-"नहि"-इति । रूपत्वव्याप्यजातित्वावच्छिन्नवदभावः कस्याञ्चिदपि पृथिव्यां नैव वर्तते, तन्त्र यस्य कस्यचिद् रूपस्यान्ततः सत्त्वादित्यर्थः । अर्थात् यदि नीरूपा पृथिवी स्यात् तदा यत्र कुत्रचिद् घटादौ “रूपत्वव्याप्यजातिमान् नास्ति' इत्याकारः प्रत्यय उदयेत । पृथिव्यान्तु सप्तविधरूपमध्ये यस्य कस्यापि रूपस्य वृत्तिरस्त्येवेति प्रकृते हेत्वधिकरणवृत्यभावीयप्रतियोगितानवच्छेदकत्वं रूपत्वव्याप्यजातित्वरूपधर्मस्याऽस्ति, तस्यैव च परम्परासम्बन्धेन साध्यताऽवच्छेदकत्वमपीति कुतोऽव्याप्तिः। ___स्थलान्तरेऽपि परम्परासम्बन्धेनाऽव्याप्तिं वारयितुं ग्रन्थान्तरमवतारयति"एवं दराड्यादिसाध्य"- इति । अस्यायमर्थः-यत्र "मठो दण्डिमान् दण्डि. संयोगात्" इत्यादावनुमाने पूर्वोक्तरीत्याऽव्याप्तिरापतेत् तत्रापि परम्परासम्बन्धाश्रयेणैव तद्वारणं कर्त्तव्यम् । तथाहि-अत्र दण्डिसंयोगरूपहेतोरधिकरणं मठोऽनुयोगितासम्बन्धेनास्ति 'यस्मिन्सम्बन्धो भवति स सम्बन्धस्यानुयोगी" इति नियमात् । तत्रैव च "वृद्धदण्डी नास्ति, युवदण्डी नास्ति' इत्याकारकः संयोगाभावोऽपि धर्तुं शक्यते, तदभावीया प्रतियोगिता तत्तद्दण्डिनिष्ठा, प्रतियोगितावच्छेदको धर्मो दण्डः, स एव च साध्यतावच्छेदकोपीत्यायातैवाव्याप्तिः । ___यदि स्वसमवायिसंयोगरूपपरम्परासम्बन्धस्वीकारे दण्डत्वधर्मः साध्यताsवच्छेदकः स्वीक्रियेत तदा नास्त्येव दोषः । “स्व''पदेन दण्डत्वधर्मग्रहः, तस्य समवायी अनुयोगितासम्बन्धेन दण्डः, तस्य संयोगः पुरुषे, एतादृशसम्बन्धेन दण्डत्वधर्मः साध्यतावच्छेदकः सन्नपि अभावीयप्रतियोगिताया: (वृद्धयुवदण्डिनिष्ठायाः प्रतियोगितायाः) अनवच्छेदकोऽप्यस्तीति न कश्चिद्दोषः ।
(मुक्का०) साध्यादिभेदेन व्याप्तर्भेदात्तादृशस्थले साध्यतावच्छेदकता. वच्छेदकं प्रतियोगिताऽवच्छेदकताऽनवच्छेदकमित्येव लक्षणघटकमित्यपि वदन्ति ।
(प्रभा०) परम्परासम्बन्धानङ्गीकर्तृणां मतमाह-"साध्यादिभेदेन' इति । साध्यतावच्छेदकविशिष्टस्य साधनतावच्छेदकविशिष्टस्य भेदेनेत्यर्थः । व्याप्तेर्भेदात्व्याप्तिज्ञानस्य कारणताभेदादित्यर्थः ।
एतेषायममाशयः-दर्शितदिशा परम्परासम्बन्धो न कल्पनीयः, किन्तु साध्यसाधनभेदं कल्पयित्वा, व्याप्ते भिन्न भिन्नञ्च लक्षणं कृत्वा समन्वयोऽवसेयः । तथाच"हेत्वधिकरणवृत्त्यभावीयप्रतियोगितावच्छेदकतानवच्छेदकं यत्साध्यतावच्छेदकतावच्छेदकं तदवच्छिन्नावच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिः” इति लक्षणं कर्त्तव्यम् । “घटो रूपत्वव्याप्यजातिमत्वान् पृथिवीत्वात्" इत्यत्र पृथिवीत्वहेत्वधिकरणं घटः, तद्वृत्य. भावः रूपत्वव्याप्यजातिमत्तत्तन्नीलपीतादिरूपाभावः, तादृशाभावीयप्रतियोगिता तत्त