________________
व्याप्तेः सिद्धान्तलक्षण परिष्कारः ।
धर्मावच्छिन्नाभावः कापि पृथिव्यामस्ति । रूपत्वव्याप्यजातिमान्नास्तीति बुद्धयापत्तेः । एवं दण्ड्यादिसाध्ये परम्परासम्बद्धं दण्डत्वादिकमेव साध्यतावच्छेदकं तच प्रतियोगितानवच्छेदकमिति ।
-
1
(प्रभा० ) " हेत्वधिकरणवृत्यभावीयप्रतियोगितानवच्छेदकं यत्साध्यतावच्छेदकम् ' इत्यंशं हृदि कृत्वाऽव्याप्तिमाशङ्कते – “ननु” – इति । अस्य ग्रन्थस्य लापनप्रकार इत्थं ज्ञेयः - " घटो रूपत्वव्याप्यजातिमत्वान् पृथिवीत्वात्" इत्यत्र उक्तलक्षणस्याऽव्याप्तिः । तथाहि - अत्र पक्षभूते घटे, रूपत्वव्याप्या या जातयो नीलत्वापी तत्वाद्या:, जातिमन्तो ये गुणा नीलपीताद्याः, ते एव च साध्यभूताः सन्ति । नीलपीतादिगुणेषु वर्त्तमाना या नीलत्वापीतत्वादिजायतस्ता: साध्यतावच्छेदिकाः सन्ति । तथाच – पृथिवीत्वरूपहेत्वधिकरण भूते श्वेतादिगुणयुक्रे घटादा सप्तविधरूपमध्ये यस्य कस्यापि रूपस्य भावोऽपि सम्भवति तादृशाभावीयप्रतियोगितावच्छेदिका एव नीलत्वापतित्वाद्या जातयः नत्वनवच्छेदिकाः, तस्मादत्र प्रतियोगितानवच्छेदिकसाध्यतावच्छेदकप्रसिद्धा श्रव्याप्तिरेव लक्षणस्येति ।
-
तदेतत्समाधत्ते – “न” – इति । तत्र - एतादृशस्थले । परम्परया =स्वाश्रयाश्रयत्वसमवायेन । “रूपत्वव्याप्यजातित्वस्य" - इति । समाधान ग्रन्थस्यायमर्थःतत्र= एतादृशस्थले परम्परया = स्वाश्रयसमवायेन, रूपत्वव्याप्यजातित्वस्यैव = रूपत्वव्याप्यासु नीलत्वापीतत्वादिजातिषु स्थितस्य जातित्वधर्मस्यैव साध्यतावच्छेदकत्वात् = नतु नीलत्वापीतत्वव्याप्यजातीनां साध्यतावच्छेदकत्व स्वीकारः येन यत्किञ्चिनीलादिगुणाभावीय प्रतियोगितावच्छेदकत्वमादाय तासामव्याप्तिकथनं सङ्गच्छेत ।
२३३
--
अयमभिसन्धिः - एतादृशस्थले स्वाश्रयसमवायाऽऽत्मक परम्परासम्बन्धेन साध्यतावच्छेदकत्वं जातित्वधर्मस्य, नतु नीलत्वादिजातीनाम् । "स्व" शब्देन रूपत्वव्याप्यजातित्वग्रहः तदाश्रयाः, रूपत्वव्याप्यनलित्व पतित्वादयः, तासां नीलपीतादिगुणेषु समवायः । ते च गुणाः पचभूतेषु घटादिषु समवायसम्बन्धेन साध्याः, रूपत्वव्याप्यजातित्वं तु स्वाश्रयसमवायसम्बन्धेन नीलपीतादिगुणेषु स्थितं सत साध्यता
कम् । एवञ्च हेत्वधिकरणरक्तघटवृत्त्यभावः नीलत्वजातिमदभावः ( नीलाभाव:) भावी प्रतियोगिता नीलगुणे, प्रतियोगिताया श्रवच्छेदको नीलत्वधर्मः, स एव रूपत्वव्याप्यजातित्वपदेनाभिहितः, तासु सर्वासु स्थितो यो रूपत्वव्याप्यजातित्वरूपो धर्मः स एव साध्यतावच्छेदकः तादृशाभावीयप्रतियोगिताया श्रनवच्छेदकोऽप्यस्ति
* ननु - - " शैषिकान्मतुबयाच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्ट" - इति नियमात् “रूपत्वव्याप्यजातिमत्त्वान्" इत्याद्यसिद्धिरितिचेन्न तस्य भिन्नाथैः समानाकारो नेत्यर्थात् । " दण्डिमती" इत्यत्र षष्ठीसप्तम्यर्थान्यतरवृत्तेः । " सप्तमीषष्ठ्यन्यतरार्थे प्रत्ययेऽर्थतः शब्दतश्च सरूपत्वाभावान्न दोष" इति मतुप्सूत्रे श्राकरे स्पष्टम् ।