________________
२३२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
. लक्षणाकारश्चायम् - "हेत्वधिकरणवृत्तिव्यासज्यवृत्तिधर्मानवच्छिन्नाप्रतियोगिताकात्यन्ताभावाप्रतियोगिना साध्येन सह हेतोः सामानाऽधिकरण्यं व्याप्तिः” इति बोध्य इति ।
एवमुक्ने सति पूर्वपक्षिणा अव्याप्तेः स्थलान्तरं प्रदर्श्यते-"गुणवान्'इति । अयमर्थः- “घटो गुणवान् द्रव्यत्वात्" इत्यत्र द्रव्यत्वहेतोरधिकरणं रक्को घटः, तत्र पीतगुणस्याभावः, पीतघटश्चेत्पक्षः तदा तत्र श्यामगुणस्थाभावः, श्यामघटश्चेत् तदा श्वेतगुणस्याभाव इत्येवं तत्तद्गुणाभावस्य प्रतियोग्येव गुणरूपं साध्यं नाप्रतियोगीत्यत्र अव्याप्ति(रुद्धरैव । ..एवं विस्तृते पूर्वपक्षे सिद्धान्ती उत्तरयति-"तथापि"-इति । यद्यप्येवं तव शङ्कास्ति, तथापि सा न युक्रेत्यर्थः । कुत इति चेदित्याह-"प्रतियोगितानवच्छेदकम्" इति । अभावीयप्रतियोगिताया अनवच्छेदकं यत्साध्यतावच्छेदकं तदवच्छिन्नेन (साध्येन ) हेतोः सामानाधिकरण्यम्=एकाधिकरणवृत्तित्वमेव व्याप्तिरित्यर्थः।
अयमभिसन्धिः -"हेत्वधिकरणवृत्त्यभावाप्रतियोगी साध्यम्" इत्येतावन्मात्रमेव न ब्रूमः, किन्तु "हेत्वधिकरण"- इत्यादिलक्षणे साध्यतावच्छेदको धर्मः हेत्वधिकरणवृत्त्यभावीयप्रतियोगिनवच्छेदको ग्रहीतव्य इत्यभिप्रेमः । तथासति "गुणवान् द्रव्यत्वात्" इत्यत्र नाव्याप्तिः। कथमिति चेत् ? शृणु-अत्र साध्यं गुणः । साध्यतावच्छेदको धर्मो गुणत्वरूपः । सच हेतोव्यत्वस्याधिकरणे घटात्मके पक्ष वृत्तिमान् योऽभावः तदभावीयप्रतियोगिताया अनवच्छदक एवंरूपेण नेतन्यो यद् द्रव्यत्वाधिकरणे "गुणत्वेन गुणो नास्ति' इत्येवं रीत्या अभावो न ग्रहीतुं शक्यते, घटस्य द्रव्यत्वात्, द्रव्ये च यस्य कस्यापि गुणस्यावश्यम्भावित्वात् । तस्माद् घटे गुणसामान्याभावो न धर्तव्यः किन्तु द्रव्यत्वहेत्वधिकरणम्पीतघट:, तद्वृत्त्यभावो नीलगुणाभाव: रसगुणाभावो. वा, तदभावीया प्रतियोगिता नीलगुणनिष्ठा पीतगुणनिष्ठा वा, तदवच्छेदकं नीलगुणत्वम्पीतगुणत्वं वा, अनवच्छेदकं साध्यतावच्छेदकं शुद्धगुणत्वम् , तदवच्छिन्नं साध्यं गुणः, तादृशेन साध्येन सह द्रव्यत्वहेतोः सामानाधिकरण्यमिति विवक्षायां कथमव्याप्तिगन्धोऽपि । लक्षणन्तु-"हेत्वधिकरणवृत्य भावीयप्रतियोगितानवच्छेदकं यत्साध्यताऽवच्छेदकं तदवच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिः" इति बोध्यम् । ... (मुक्ता०) ननु-रूपत्वव्याप्यजातिमत्वान् पृथिवीत्वादित्यादौ साध्यतावच्छेदिका रूपत्वव्याप्यजातयस्तासाञ्च शुक्लत्वादिजातीनां नीलघटादिवृत्त्यभावप्रतियोगिताऽवच्छेदकत्वमस्तीत्यव्याप्तिरिति चेन्न, तत्र परम्परया रूपत्वव्याप्यजातित्वस्यैव साध्यतावच्छेदकत्वात् । नहि तादृश