________________
व्याप्तेः सिद्धान्तलक्षणम् ।
इत्यन्तम् । “अत्र"-इत्यारभ्य "द्रव्यत्वादित्यादावव्याप्तिश्च"-इत्यन्त: पूर्वपक्षग्रन्थः । “तथापि"-इत्यारभ्य "वाच्यम्"-इत्यन्तः उत्तरपक्षग्रन्थः ।
“अत्र"-इति । यद्यपि अत्र “पर्वतो वह्निमान् धूमात्" इत्यादौ । “हेत्वधिकरण"-इति । धूमादिहेत्वधिकरणं यत् पर्वतादिः तद्वृत्त्यभावप्रतियोगित्वम् = नाम धूमादिहेत्वधिकरणवृत्तितत्तत्तद्वयभावप्रतियोगित्वं तत्तद्वयादेः-महानसीयवयादेरिति योजना । “अव्याप्तिः" इति । चालनीन्यायेनेति शेषः । अर्थात् "पर्वतो वह्निमान् धूमात्' इत्यादी हेत्वधिकरणे पर्वतादौ यथा घटाभावः पटाभावो वास्ति तथा तत्तद्वयादेः महानसीयवह्वेरप्यभावः, महानसे च चत्वरीयवह्वेरभावः, चत्वरे च गोष्ठीयवह्वेरभावः । एवञ्च तस्याभावस्य प्रतियोग्येव वह्नि प्रतियोगि साध्यमतोऽव्याप्तिरेवास्य लक्षणस्य ।
ननु-पर्वतीयवह्वयादेः पर्वतीयधूमादिनैव व्याप्तिरास्तामिति शङ्कते-"नच"इति । अर्थात्-यदि सिद्धान्ती कथयेत् "समानाधिकरणवधूिमयोरेव व्याप्तिः" इति । अर्थात् “हेत्वधिकरणवृत्त्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम्" इति लक्षणकरणे ममायमभिप्रायो यत् पर्वतीयधूमेन सह पर्वतीयवढेाप्तिः, महानसीयधूमेन सह महानसीयवाप्तिः, एवञ्चत्वरीयधूमेन सह चत्वरीयवाप्तिरित्याग्रुह्यम् । तथाच हेत्वधिकरणे पर्वतीयधूमाधिकरणे पर्वतादौ महानसीयवह्वेरभावे गृहीतेऽपि तत्प्रतियोगी महानसीयवह्निः, अप्रतियोगी साध्यः पर्वतीयवह्निः, तादृशेन वह्निना सह धूमहेतोः सामानाधिकरण्यमिति कुतोऽव्याप्तिरिति ? तत्रोच्यते-"तत्तद वह्नयादेः" इति । यद्यप्येवं तवाशयः तथाऽप्यव्याप्ति पयाति प्रकारान्तरेणापि तस्या: सत्त्वात् । तथाहि-"पर्वतो वह्निमान् धूमात्" इत्यत्र “एकसत्वेऽपि द्वयं नास्ति" इति नियमेन पर्वते पर्वतीयवह्निसत्त्वेऽपि “वह्निघटद्वयं नास्ति' इति प्रतीतिर्जायत एव । यथा घटस्थले “घटपटौ न स्त" इति प्रतीतिर्भवति तद्वत् । तथाच तादृशोभयाभावस्य यथा घटः प्रतियोगी तथा वह्निरपीत्यप्रतियोगिनः साध्यस्याभावस्तदवस्थः, तस्मात्सुतरामव्याप्तिः ।
अंथ सिद्धान्ती इत्थं ब्रयात् यत् हेत्वधिकरणवृत्यभावीया प्रतियोगिता व्यासज्यवृत्तिधर्मानवच्छिन्ना विवाक्षता, अर्थात् उभयवृत्तिधर्मो "*व्यासज्यवृत्तिः" । इत्युच्यते । प्रकृते च हेत्वधिकरणे पर्वते “वह्निघटद्वयं नास्ति' इत्याकाराभावीया वहिनिष्ठा या प्रतियोगिता त्वयोद्भाविता सा व्यासज्यवृत्तिधर्मानवच्छिन्ना नास्ति । किन्तु वह्निघटोभयस्मिन् वर्तमानो यो वह्निघटोभयत्वरूपो धर्मः सच व्यासज्यवृत्तिः, तदवच्छिन्नैव च प्रकृते वह्निनिष्ठा प्रतियोगिता । तस्माद् वह्निघटोभयाभावमादाय दूषणदानमाक्षेप्तुरसमञ्जसमेव । एवञ्च शुद्धघटाभावमादायैव लक्षणं समन्वयनीयम् ।
* एकत्वावच्छिन्नप्रतियोगिताकपर्याप्तिकान्यत्वं व्यासज्यवृत्तित्वम् ।