SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २३० सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे वा, तत्प्रतियोगिता तत्तनिष्ठा, अप्रतियोगि साध्यं वाच्यत्वं तेन सह ज्ञेयत्वहेतोः सामानाधिकरण्यमस्तीति लक्षणसमन्वयः । (मुक्ता०) हेतुमति निष्ठा वृत्तिर्यस्य स तथा विरहोऽभावः, तथाच हेत्वधिकरणवृत्तिोऽभावः तदप्रतियोगिना साध्येन सह हेतोः सामानाधिकरण्यं व्याप्तिरुच्यते । अत्र यद्यपि वह्निमान् धूमादित्यादौ हेत्वधिकरणपर्वतादिवृत्त्यभावप्रतियोगित्वं तत्तद्वयादेरस्तीत्यव्याप्तिः, न च समानाधिकरणवह्निधूमयोरेव व्याप्तिरिति वाच्यम् , तत्तद्वह्नयादेरप्युभयाभावसत्त्वादेकसत्त्वेऽपि द्वयं नास्तीति प्रतीतेः । गुणवान् द्रव्यत्वा. दित्यादावव्याप्तिश्च, तथापि प्रतियोगितानवच्छेदकं यत्साध्यतावच्छेदकं तदवच्छिन्नसामानाधिकरण्यं व्याप्तिरिति बोध्यम् । (प्रभा०) स्त्रोक्तां कारिकां स्वयं विवृणोति-"हेतुमति"-इत्यादिना । व्याख्यातप्रायम् । एवञ्च सति “सत्तावान् जातेः' इत्यत्र नाव्याप्तिः । तथाहिहेतुरत्र जातिः, तदधिकरणं द्रव्यगुणकर्म (प्रकृते च पक्षत्वेनाऽभिमतो घटो द्रव्यमेव हेत्वधिकरणम् ) तद्वृत्त्यभावः सत्ताभावस्तु धत्तुं न शक्यते तस्यास्तत्र विद्यमानत्वात् । किन्तु अन्य एव कश्चित् दण्डाभावः पटाभावो वा ( हेत्वधिकरणं पक्षभूते घटे) ग्रहीतुं शक्यते, तस्याभावस्य प्रतियोगी दण्ड: पटो वा, अप्रतियोगी साध्यं सत्ता, तादृशसाध्येन सह "जाति"रूपहेतोः सामानाधिकरण्यम्=एकाश्रयवृत्तित्वं वर्तत एवेति कृत्वा लक्षणसमन्वयः । ततश्च नाव्याप्तिः । ___ "पर्वतो वह्निमान् धूमात्" इत्यत्र प्रसिद्धानुमाने हेतुधूमः, तदधिकरणम् (पक्षः) पर्वतः, तद्वृत्त्यभावो वह्नयभावस्तु धत्तुं न शक्यते, तत्र तस्य विद्यमानत्वात । अत्यन्ताभावस्य प्रतियोगिना सह विरोधात्, तस्मात्तादृशाभावप्रतियोगी वहिर्न भवति, तेन ध्रियते तत्रान्यः कश्चन अभावः घटाभावो वा पटाभावो वेति, तत्प्रति. योगी घटः पटो वा, अप्रतियोगी साध्यो वह्निः, तेन वह्निना सह धूमस्य हेतोः सामानाधिकरण्यमस्त्येवेति लक्ष्ये लक्षणसमन्वयः ।। ___"धूमवान् वह्नः" इत्यत्र असद्धेतुस्थले तु हेतुर्वह्निः, तदधिकरणं यद्यपि पर्वतः, तथापि तप्तायःपिण्डोऽपि ग्रहीतुं शक्यते, तद्वृत्त्यभावो धूमात्यन्ताभावः, तत्प्रतियोग्येव साध्यं धूमो नाप्रतियोगि। इष्यते तु अप्रतियोगि साध्यम्, तस्मात्तादृशाप्रतियोगिसाध्याभावादुक्कलक्षणस्य नातिव्याप्तिः । ___उनलक्षणस्यैव प्रसिद्धाऽनुमानेऽव्याप्तिमाशङ्क्य निवेशान्तरेण तत्परिहारं दर्शदर्शयितुं ग्रन्थान्तरमवतारयति-"अत्र' इत्यारभ्य "व्याप्तिरिति वाच्यम्" _* लक्ष्ये लक्षणसमन्वयोऽलक्ष्याच्यावृत्तिरिति लक्षणसाधुतां दर्शयति- "पर्वतो वहिमान्"-इति ।
SR No.002363
Book TitleNyayasiddhant Muktavali
Original Sutra AuthorN/A
AuthorMaherchand Lakshmandas
PublisherMaherchand Lakshmandas
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy