________________
व्याप्तेः सिद्धान्तलक्षणम् ।
२२६
वाच्यत्ववझेदाधिकरणस्याप्रसिद्ध्या तन्निरूपितवृत्तिताया अप्यप्रसिद्धिरेव । अथच --- हेतुनिष्ठमवृत्तित्वमपि सुतरामप्रसिद्धम्, प्रतियोगिज्ञानाधीनज्ञानविषयत्वादभावज्ञानस्येति सर्वमभिप्रेत्य सिद्धान्तलक्षणमवतारयितुं शङ्कते-"ननु"-इति ।
केवलान्वयिनि-अत्यन्ताभावाऽप्रतियोगिनि । "शेयत्वादौं'–इत्यादिना प्रमेयत्वादेर्ग्रहः । साध्यवदन्यस्य-साध्यवझेदाधिकरणस्य । "अप्रसिद्धत्वात्"इति । प्रसिद्ध्यभावात् अप्रमितत्वादित्यर्थः । अव्याप्तिः पदार्थमात्रस्यैव अभिधेयत्वात् ज्ञेयत्वाच्चाऽव्याप्तिरेव लक्षणस्येत्यर्थः ।
ननु-केवलान्वयित्वज्ञानकाले "इदं वाच्यत्ववन्नवा" इत्याकारः पक्षताघटकः संशयोऽपि नास्त्येव तदभावात्कथमनुमितिः, केवलान्वयिज्ञानाभावकाले तु भ्रमात्मकव्याप्तिज्ञानादनुमितिर्भविष्यत्येवेति कथमुच्यतेऽत्राव्याप्तिरित्यस्वरसमनुसन्धाय पाह"किञ्च"-इति । “सत्तावान्” इति । अयमर्थः- "घटः सत्तावान् जातेः' इत्यत्र साध्यं सत्ता, साध्यवद् द्रव्यगुणकर्मेति त्रितयम् , विष्वेव सत्तायाः समवायात् । साध्य. वझेदाधिकरणं सामान्यविशेषसमवायादि, तेषु हेतुतावच्छेदकसमवायसम्बन्धेन यदि कस्यचिद् वृत्तित्वम् आधेयता प्रसिद्धम् प्रसिद्धा स्यात् , स्यात् तदा समवायसम्बन्धावच्छिन्नवृत्तित्वाऽभावोऽपि जातिरूपहेतो, परन्तु समवायसम्बन्धाऽवच्छिन्ना वृत्तिता तेषु अप्रसिद्धैवेत्यत्राऽव्याप्तिस्तु न निवारयितुं शक्यत इत्यतः सिद्धान्तलक्षणं दर्शयतिं परममूले(का०) अथवा हेतुमन्निष्ठविरहाप्रतियोगिना।
साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते ॥६६॥ (प्रभा०) 'अथवा" इति । हेतुमति-साधनाधिकरणे पक्षे निष्ठा=स्थिति. यस्य तादृशो यो विरहोऽत्यन्ताभावः तस्य अप्रतियोगि-अविरोधि यत्साध्यं तेन साध्येन सह हेतोः ऐकाधिकरण्यम् सामानाधिकरण्यं यत्सा व्याप्तिरुच्यते. सिद्धान्तरूपेणेति शेषः । तथाच-"हेत्वधिकरणवृत्त्यत्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिरिति” फलितम्भवति । इत्थञ्च 'घटो वाच्यत्ववत् ज्ञेयत्वात्" इत्यत्रापि न दोषः। प्रकृते हेतुर्जेयत्वम् , तदधिकरणं वाच्यभूतो घटादिः, तवृत्तिरभावः वाच्यत्वाभावस्तु न धत्तुं शक्यते । तत्र तस्य विद्यमानत्वात्, किन्तु शक्यते वदितुं पटाभावो दण्डाभावो
वच्छिन्नप्रतियोगिताकाभाव-व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावप्रभृतयः केवलान्वयिपदार्थाः । ईश्वरेच्छाविषयत्वमिच्छाविषयत्वं वा वाच्यत्वम् । ईश्वरीयप्रमाविषयत्वं प्रमाविषयत्वं वा प्रमेयत्वम् । ईश्वरीयज्ञानविषयत्वं ज्ञानविषयत्वं वा ज्ञेयत्वम् । संयोगसम्बन्धेन गुणाभावादिः व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाभावः । घटत्वेन पटाभावादिय॑धिकरणधर्मावच्छिन्नप्रतियोगिताकाभाव इत्याद्यन्यत्र विस्तरः ।