________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [ अनुमानखण्डे
1
श्वरीयेच्छाविषयी भूतपदार्थमात्रं वाच्यम्भवति एवमीश्वरीयज्ञानविषयीभूतम्पदार्थमात्रमेव च ज्ञेयमिति साधर्म्यनिरूपणे प्रत्यक्षखण्डेऽवोचाम । तथाच पदार्थमात्र निष्ठा वाच्यत्वज्ञेयत्वादयो धर्माः केवलान्वयिन उच्यन्ते । + अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वमिति तल्लक्षणात् । श्रनया रीत्या पदार्थमात्रस्य वाच्यत्वधर्मावच्छिन्नतया
२२८
* अर्थात ज्ञेयत्ववाच्यत्वादीनां केवलान्वयित्वं न्यरूपयाम |
+ ननु - एवं गगनाभावस्य केवलान्वयित्वं न सम्भवति गगनाभावस्य गगनात्मकात्यन्ताभावप्रतियोगित्वात् । यदि च गगनाभावाभावत्वं गगनस्य न स्वीक्रियते प्रतियोगित्वस्य स्वरूपसम्बन्धात्मकतया गगने तद्विरोधेऽपि गगनाभावप्रतियोगित्वासम्भवात् । अस्तु वा श्रत्यन्ताभावस्य तदात्मता, गगनञ्च न संसर्गाभाव: ( तस्य ) भावत्वात् । अथैवं घटाभावादेरपि केवलान्वयित्वा(ना)पत्तिः । तस्य घटात्मकाऽभावप्रतियोगित्वेऽपि घटस्य भावत्वेन न संसर्गाभावात्मकत्वमिति चेत् तर्हि अत्यन्ताभावो वृत्तिमत्वेन विशेषणीय इति विभाव्यते, तदा कपिसंयोगाभावादेः केवलान्वयिश्वं न स्यात्, कपिसंयोगाद्यात्मक वृत्तिमदत्यन्ताभावप्रतियोगित्वात् तथाप्यत्यन्ताभावस्य प्रतियोगिव्यधिकरणत्वेन विशेषणीयतया नाऽनुपपत्तिरिति रामरुद्रः ।
श्रयमभिसन्धिः — अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वञ्चत् ? तदा ( कपि ) संयोगाभावे कालाभावे चाव्याप्तिः । अतस्तद्वारणाय " स्ववृत्तिविरोधिवृत्तिमदत्यन्ताभावाऽप्रतियेगित्वं केवलान्वयित्वम्" इत्येव लक्षणं कर्त्तव्यम् । "स्व" शब्देन घटाभावः तस्य विरोधी वृत्तिमदत्यन्ताभावो घटाभावाभावः, तत्प्रतियोगित्वं घटाभावे, अप्रतियोगित्वञ्च प्रमेयत्वादाविति लक्षणसमन्वयः । अर्थात् वृत्तिशब्देनाधेयता ग्राह्या । तथाच - प्र - प्रमेयत्वादिवृत्तिविरोधिवृत्तिमत्प्रमेयत्वाद्यत्यन्ताभावाऽप्रसिद्धया “स्व”शब्देन घटादयो ग्राह्याः तेषामाधेयताविरोधिवृत्तिमदत्यन्ताभावो घटादिशून्यदेशे घटाद्यत्यन्ताभाव:, तत्प्रतियोगित्वं घटादौ, अप्रतियोगितत्वम्प्रमेयत्वादाविति लक्षणसमन्वयः । "वृत्तिमदत्यन्ताभावाऽप्रतियोगित्वं केवलान्वयित्वम्" इत्युक्ते कपिसंयोगाद्यत्यन्ताऽभावादीनामपि केवलान्वयित्वस्याभीष्टतया लक्ष्यत्वात् कपिसंयोगाभावादिष्वव्याप्तिः स्यात् । वृत्तिमदत्यन्ताभावः कपिसंयोगात्यन्ताभावाद्यभावः तत्प्रतियोगित्वस्य कपिसंयोगाभावादौ सत्त्वात् तद्वारणाय "स्वविरोधिवृत्ति" इत्युक्तम् । तथाच — स्वविरोधिवृत्तिमदत्यन्ताभावः कपिसंयोगात्यन्ताभावाद्यभावो नास्ति, कपिसंयोगात्यन्ताभावाद्यभावरूपकपिसंयोगाद्यधिकरणवृक्षादौ मूलाद्यवच्छेदेन कपिसंयोगाद्यत्यन्ताभावस्य सत्वात्, किन्तु स्ववृत्तिविरोधिवृत्तिमदत्यन्ताभावो घटात्यन्ताभावस्तत्प्रतियोगित्वं घटादावप्रतियोगित्वं कपिसंयोगात्यन्ताभावादाविति कपिसंयोगात्यन्ताभावादौ केवलान्वयित्वं संरक्षितमेव । गगनात्यन्ताभावादावव्याप्तिवारणाय "वृत्तिमद्" इत्युक्तम् । तथाच—गगनाऽत्यन्ताऽभावाद्यभावस्य गगनादिरूपत्वेन वृत्तिमत्त्वाऽभावेन तद्ग्रहणासम्भवेन नाव्याप्तिरिति बोध्यम् ।
"
श्रयमत्र सारसार:- " स्वरूपसम्बन्धेन = एकजातीयसम्बन्धेन सर्वत्र वर्त्तमानत्वं केवलान्वयित्वम्” इति । तत्र - वाच्यत्व. प्रमेयत्व -शेयत्व - गगनाभाव - कपिसंयोगाभाव-व्यधिकरण सम्बम्धा