________________
सिद्धान्तलक्षणोपक्रम: ।
वृत्तिताया अनवच्छेदको ग्राह्यः । यद्येवं न स्यात्तर्हि " इदम् = द्रव्यं द्रव्यत्ववत् गुणकर्मान्यत्वविशिष्टसत्वात्" इत्यत्रैवान्याप्तिः स्यात् । तथाहि - अत्र द्रव्यं पत्तः, द्रव्यत्वं साध्यम्, गुणकर्मान्यत्वविशिष्टसत्त्वादिति हेतुः । अन्यत्वं भेदोऽन्यतान्योन्याभाव इत्यनर्थान्तरम् । गुणकर्मभेदविशिष्टसत्ता केवलं द्रव्ये वर्त्तते, शुद्धसत्ता तु द्रव्यगुणकर्मसु त्रिष्वेव तिष्ठति । परमस्ति चैको न्यायनियमो यद् “ विशिष्टं शुद्धानातिरिच्यत" इति । अनेन नियमेन गुणकर्मभेदविशिष्टसत्ताया शुद्धसत्तायायाश्च भेदो वक्तुं न शक्यते । तथाच साध्यवद् द्रव्यम्, तत्प्रतियोगिकभेदाधिकरणं गुणकर्मादि, तत्रोक्कनियमेन उक्तविशिष्टसत्ताया वृत्तित्वमेवास्ति वृत्तित्वाभावो नास्ति, इष्यते च वृत्तित्वाभावः एवमयमत्राव्याप्तिर्दोषः ।
1
यदि तु हेतुतावच्छेदकधर्मे साध्यवद्भेदाऽधिकरणनिरूपितवृत्तिताया नवच्छेदकत्वं गृह्येत तदा नाव्याप्तिः । अर्थात् प्रकृते हेतुतावच्छेदकधर्म: गुणकर्मान्यत्वविशिष्टसत्तात्वरूपः सच साध्यवद्भेदाऽधिकरणीभूतगुणकर्मनिरूपितवृत्तिताया श्रनवच्छेदकः प्रदर्शितरीत्यैव भवितुमर्हति । यद्यपि विशिष्टसत्तायाः शुद्धसत्तायाश्च परस्परमभेद:, तथापि गुणकर्मभेदविशिष्टसत्तात्वं शुद्धसत्तात्वञ्च धर्मः परस्परं भिन्न एव । नहि गुणकर्मान्यत्वविशिष्टसत्तात्वेन रूपेण विशिष्टसत्ता गुणेषु कर्मसु च वत्र्त्तते, किन्तु द्रव्य एव तिष्ठति । एवं साध्यं द्रव्यत्वम्, साध्यवद् द्रव्यम् साध्यवद्भेदाधिकरणं गुणा वा कर्माणि वा ( स्वस्मिन् स्वभेदाभावात् ) तेषु वृत्तिता = श्राधेयता गुणत्वस्य कर्मत्वस्य वाऽस्ति । वृत्तितावच्छेदकञ्च गुणत्वत्वकर्मत्वत्वरूपो धर्मः, अनवच्छेदकञ्च गुणकर्मान्यत्वविशिष्टसत्तात्वरूपो धर्मः, तस्य गुणादिष्ववृत्तित्वमेवास्तीति नाव्याप्तिलेशोऽपि । लक्षणस्वरूपन्तु – 'साध्यतावच्छेदकसम्बन्धाऽवच्छिन्नसाध्यवत्त्वाऽवच्छिन्नप्रतियोगिताकभेदाधिकरणत्वावच्छिन्नभेदाधिकरणनिरूपिता या हेतुतावच्छेदकसम्बन्धावच्छिन्ना वृत्तिता, तादृशवृत्तिताऽनवच्छेदकहेतुतावच्छेदकधर्मवत्त्वमेव ( हेतु शिरसि साध्यस्य ) व्याप्तिः ।
( मुक्का० ) ननु - केवलान्वयिनि ज्ञेयत्वादौ साध्ये साध्यवदन्यस्या - प्रसिद्धत्वादव्याप्तिः । किञ्च सत्तावान् जातेरित्यादौ साध्यवदन्यस्मिन् सामान्यादौ हेतुतावच्छेदकसम्बन्धेन समवायेन वृत्तेरप्रसिद्धत्वादव्याप्तिश्चात श्राह
( प्रभा० ) उपरि प्रदर्शितं लक्षणद्वयमपि श्रन्वयव्यतिरेकिणि केवलव्यतिरेकिणि वा घटते, नतु केवलान्वयिन्यपीति । तथाहि - "इदं वाच्यं वाच्यस्ववत् ज्ञेयत्वात् " श्रत्रोक्तलक्षणस्याव्याप्तिरेव । अर्थात् " श्रस्माच्छब्दादयमर्थो बोद्धव्यः" इत्याकारके -
--
* द्रव्यत्वावच्छिन्नद्रव्य प्रतियोगिकभेदाधिकरणमित्यर्थः ।
+ आधेयतायाश्रवच्छेदकमित्यर्थः ।
२२७