________________
२२६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे योगिताकभेदाधिकरणनिरूपिता या हेतुतावच्छेदकसम्बन्धावच्छिन्ना वृत्तिता, तादृशवृत्तित्वाभावो व्याप्तिः" इति पर्यवनः ।
__(मुक्का०) साध्यवदन्यावृत्तित्वञ्च साध्यवदन्यवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावः। तेन धूमवान् वह्नरित्यत्र साध्यवदन्यजलहदादिवृत्तित्वाभावेऽपि नातिव्याप्तिः।
(प्रभा०) साध्यवतोऽन्यस्मिन्-भिन्नेऽधिकरणे अवृत्तित्वम् वृत्तित्वाभावः कीदृशो विवक्षित इति दर्शयितुमाह-“साध्यवदन्यावृत्तित्वञ्च"---इति । साध्य वतोऽन्यः साध्यवदन्यः। साध्यवत्प्रतियोगिकभेदाधिकरणमित्यर्थः ।
अयमर्थः-साध्यवान् पर्वतादिः ततोऽन्यो जलहृदादिः साध्यवझेदाधिकरणं यत्, तन्निरूपिता वृत्तित्वावच्छिन्ना प्रतियोगिता यस्य तादृशो योऽभावः असौ साध्यवदन्यावृत्तित्वपदेन विवक्षितः । अर्थात् यावन्ति यानि साध्यवझेदाधिकरणानि तावत्सु सर्वेष्वेव ® अवच्छिन्नप्रतियोगिताकोऽभावो ग्रहीतव्यः, नतु यत्किञ्चित्साध्यव दाधिकरणनिरूपितवृत्तित्वाभावः।
अस्या विवक्षायाः फलं दर्शयति--"तेन"---इति । अयमत्राभिप्रायःयदि साध्यवझेदाधिकरणानि यावन्ति न ग्रहीष्यन्ते तदा “धूमवान् वढेः" इत्यत्रासद्धेतावतिव्याप्तिः स्यात् । कथमिति चेत् ? इत्थम् – साध्यवझेदाधिकरणत्वावच्छिन्नाधिकरणस्याग्रहणे प्रकृते साध्यो धूमः, साध्यवान् पर्वतादिः, तदन्यो जलहृदादिः, तत्र वृत्तित्वं मीनादीनाम्, अवृत्तित्वं वह्निरूपहेतोरस्तीति कथं नातिव्याप्तिः ।
यदि तु साध्यवद्धदाधिकरणत्वावच्छिन्नानरूपितवृत्तित्वाभावो हेतोर्विवक्षितः, तदा तु प्रकृते साध्यवझेदाधिकरणम् (पर्वतप्रतियोगिकभेदाधिकरणम् ) यथा जलहृदः, तथा तप्तायःपिण्डोऽपि, तत्र वह्निरूपहेतोवृत्तित्वमेव नावृत्तित्वमिति उक्नविवक्षायां नांतिव्याप्तिः । एवञ्च लक्षणस्यायमाकार:-'साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यवत्त्वावच्छिन्नप्रतियोगिताकभेदाधिकरणत्वावच्छिन्नभेदाऽधिकरणनिरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वाभावो (हेतुशिरसि साध्यस्य ) व्याप्तिः।
(मुक्ता०) अत्र यद्यपि द्रव्यं गुणकर्मान्यत्वविशिष्टसच्चादित्यादौ विशिष्टसत्तायाः शुद्धसत्तायाश्चैक्यात्साध्यवदन्यस्मिन् गुणादाववृत्तित्वं नास्ति । तथापि हेतुतावच्छेदकरूपेणावृत्तित्वं वाच्यम् । हेतुतावच्छेदकं तादृशवृत्तितानवच्छेदकमिति फलितोऽर्थः ॥ ६८ ॥
... (प्रभा०) स्थलान्तरेऽव्याप्तिपरिहाराय साध्यवझेदाधिकरणे हेतोर्हेतुतावच्छेदक. रूपेणावृत्तित्वं विवक्षन् ग्रन्थान्तरमवतारयति-"अत्र"-इत्यादि ।
अयमत्राशयः-हेतौ हेतुतावच्छेदकधर्मोपि साध्यवझेदाधिकरणनिरूपिताया * यावत्साध्यवद्भेदाधिकरणनिरूपितवृत्तित्वाभाव इत्यर्थः ।