SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ पूर्वपक्षीयव्याप्तिलक्षण परिष्कारः । महानसं गोष्ठादिर्वा अपि ग्रहीतुं शक्यते । तन्निरूपितधूमरूपहेतोरवृत्तित्वं नास्ति, किन्तु वृत्तित्वमेवेति पुनरप्यव्याप्तिरायाता । यदि तु –“साध्यवदन्य” पदेन " साध्यवत्त्वधर्मावच्छिन्नप्रतियोगिताकभेदवान्” इत्यर्थ: स्वीक्रियेत तदा साध्यवत्त्वधर्मावच्छिन्नानां पुरोवर्त्त्य पुरोवर्त्तिसकलपर्वतानां महानसगोष्ठादीनाञ्च ग्रहणे सति तन्निरूपितभेदाधिकरणं जलहदाद्येव भविष्यति, नतु यत् किञ्चिद्वह्निरूपसाध्याधिकरणीभूत महान साद्यपि, अर्थात् द्वितीयपर्वतादिकं गोष्ठादिकञ्चत्वरादिकं वा साध्यवद्भिन्नपदेन न ग्रहीष्यामः, किन्तु जलहदादिकमेव, तन्निरूपितवृत्तित्वं मीनादीनां वृत्तित्वाभावो धूमात्मक हेतौ वर्त्तत इति न क्षतिः = नाव्याप्तिरित्यर्थः । तथाच लक्षणस्याकारः- “साध्यतावच्छेदकसम्बन्धावच्छिन्न-साध्यवत्त्वावच्छिन्नप्रतियोगिताकभेदाऽधिकरणनिरूपितवृत्तित्वाऽभावो" ( हेतुशिरसि साध्यस्य ) २२५ व्याप्तिः । ( मुका० ) येन सम्बन्धेन हेतुता तेनैव सम्बन्धेन साध्यवदन्या - वृत्तित्वम्बोध्यम् । तेन साध्यवदन्यस्मिन्धूमावयवे धूमस्य समवायसम्बन्धेन सत्त्वेऽपि न क्षतिः । ( प्रभा० ) हेतुतावच्छेदकसम्बन्धविवक्षया साध्यवदन्यस्मिन् वृत्तित्वं विवक्षित्वा वृत्तित्वे इष्टापत्तिं निरूपयति – “येन” – इति । श्रयमाशयः - येन सम्बन्धेन हेतुर्विवक्षितस्तेनैव सम्बन्धेन साध्यवद्भिन्नाधिकरणे वृत्तित्वं मत्वाऽवृत्तित्वं नेतव्यम् । यदि हेतुतावच्छेदकसम्बन्धेन साध्यवद्भिन्नाधिकरणे वृत्तित्वं न मन्येत तदा प्रकृते भूयोऽप्यव्याप्तिर्दोषः । तथाहि - साध्यो वह्निः, साध्यवान् पर्वतादिः, साध्यवत्त्वं यावत् साध्यवद्वृत्तिर्धर्मः, तदवच्छिन्ना प्रतियोगिता यस्य तादृशो यो भेदो नाम अन्योन्याभावः, तदधिकरणं यथा जलहृदादिः तथा धूमहेतोरवयवोऽपि साध्यवत्प्रतियोगिभेदाऽधिकरणतया धर्त्तुं शक्यते, तत्र धूमावयवे धूमहेतोरवृत्तित्वं नास्ति, किन्तु समवायेन वृत्तित्वमेव, श्रवयविपदार्थस्यावयवे समवायसम्बन्धेन वृत्तितायाः स्वीकारात्, तस्मात्तदवस्थोऽव्याप्तिदोषः । यदि तु साध्यवद्भेदाधिकरणनिरूपितवृत्तितायां हेतुतावच्छेदकसम्बन्धो गृह्येत तदा प्रकृते हेतुर्धूमः, हेतुता धूमनिष्ठा हेतुतावच्छेदकसम्बन्धः संयोगः, तेनैव पर्वतादौ धूमहेतोर्वृत्तित्वात् " द्रव्ययोरेव संयोग" इति नियमात् । एवं यथा हेतुतावच्छेदकसंयोगसम्बन्धेन धूमावयवे धूमहेतोरवृत्तित्वन्तथा जलहदादिष्वपि तस्यावृत्तित्वमेव, किन्तु स्वसाध्यवह्निसमानाधिकरण एव धूमहेतुः पर्वतादाविति न क्षतिः = नाव्याप्तिरित्यर्थः । लक्षणस्याकारस्तु--साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यवत्वावच्छिन्नप्रति * जलहद निष्ठाधिकरणतानिरूपिताधेयतावत्त्वम् ।
SR No.002363
Book TitleNyayasiddhant Muktavali
Original Sutra AuthorN/A
AuthorMaherchand Lakshmandas
PublisherMaherchand Lakshmandas
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy