________________
२२४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्कावल्याः [अनुमानखण्डे
“धूमवान् वह्नः" इत्यत्राऽसद्धेतौ साध्यो धूमः, साध्यवान् पर्वतादिः, तत्प्रतियोगिको भेदो धूमवद्भेदः, तदधिकरणं यथा हृदादिः तथाऽयोगोलकमपि तत्राऽयोगोलकनिरूपितवृत्तित्वमेव वह्निहेतोः वृत्तित्वाभावो नास्तीति नातिव्याप्तिः । अत्रापि पूर्ववद् वृत्तित्वसामान्याभाव एव धर्तव्यः । एतत्सर्वमभिप्रेत्य स्वयं ग्रन्थकार: “साध्यवदन्येति" इत्यादिना निरूपयति तत्तत्र तत्र यथाग्रन्थं व्याख्यास्यामः ।
(मुक्का०) अत्र * येन सम्बन्धेन साध्यं तेनैव सम्बन्धन साध्यवान् बोध्यः । अन्यथा समवायसम्बन्धेन वह्निमान्वह्नरवयवस्तदन्यो महानसादिस्तत्र धूमस्य विद्यमानत्वादव्याप्तिप्रसङ्गात् ।
(प्रभा०) उक्नेऽन्योन्याभावघटितव्याप्तिलक्षणे साध्यतावच्छेदकसम्बन्धं विवक्षबाह -"अत्र"- इत्यादि।
अस्यायमाशयः- अत्र लक्षणे येन सम्बन्धेन साध्यं विवक्षितं भवेत् , तेनैव सम्बन्धेन साध्यवानपि विवक्षणीयः । अन्यथा यद्येवं न स्वीक्रियेत तदा "वह्निमान् धूमात्" इत्यत्रैवोक्तव्याप्तिलक्षणस्य श्रव्याप्तिः । कथमितिचेत् ? इत्थम्अत्र समवायसम्बन्धेन वढेरवयवोऽपि वह्निमान् , अवयवावयविनो समवायात् । तदन्यो नाम तद्भिन्नो महानसादिः, तत्र धूमहेतोरवृत्तित्वं नास्ति; किन्तु वृत्तित्वमेव, इष्टञ्च अवृत्तित्वम् , तेन अनाऽव्याप्तिर्लक्षणदोष: । साध्यतावच्छेदकसम्बन्धविवक्षायान्तु प्रकृते साध्यतावच्छेदकसम्बन्धः संयोगः, स एव च साध्यवतोऽपीति नोकदोषगन्धोऽपि, नहि संयोगसम्बन्धेन वढेरवयवो वह्निमान् । साध्यसाध्यवतोरेकसम्बन्धविवक्षायां नाव्याप्तिर्भवतीति सारः । अनया रीत्या लक्षणस्यायमाकारः सम्पद्यते“साध्यताऽवच्छेदकसम्बन्धावच्छिन्नसाध्यवत्प्रतियोगिकभेदाऽधिकरणनिरूपितवृत्तित्वाऽभावो' व्याप्तिः ।
__(मुक्का०) साध्यवदन्यश्च साध्यवत्त्वावच्छिन्नप्रतियोगिताकभेदवान् बोध्यः । तेन यत्किश्चिद्वह्निमतो महानसादेर्भिन्ने पर्वतादौ धूमस्य सत्त्वेऽपि न क्षतिः।
(प्रभा०) साध्यवदन्यपदेन विवक्षितमर्थ सप्रयोजनमाह-“साध्यवदन्यश्च" इति । अस्य ग्रन्थस्यायमर्थः-लक्षणे “साध्यवदन्य"पदेन यावत्सु साध्यवस्सु स्थितो यः साध्यवत्त्वरूपो धर्मः, तद्धर्मावच्छिन्नप्रतियोगिताको यो भेदः, तादृशभेदवान् ग्राह्यः । यद्येवं विवक्षा न क्रियेत, तदा “वह्निमान् धूमात्" इत्यत्र पुनरप्यव्याप्तिः प्राप्ता । कथमिति चेत् ? शृणु-पत्र साध्यो वह्निः, साध्यवान् पुरोवर्ती पर्वतः, तादृशसाध्याधिकरणादन्या अर्थात् तत्प्रतियोगिकभेदाधिकरणं द्वितीयः पर्वतः,
* अत्र साध्यपदस्य भावप्रधाननिर्देशात् यत्सम्बन्धावच्छिन्नसाध्यतेत्यर्थः । साध्यतावच्छेदको य: सम्बन्ध इति यावत् । तेनैव सम्बन्धेन साध्यतावच्छेदकसम्बन्धेन इति प्राचीनः कश्चित् ।
-