________________
पूर्वपक्षीयव्याप्तिलक्षणपरिष्कारः।
२२३
तस्य च प्रतियोगित्वसम्बन्धेन नअर्थेऽभावेऽन्वय इति प्रकारतावादिमताऽभिप्रायेणोऋमित्याहुः । .
"पर्वतो वह्निमान् धूमात्" इत्यत्र * साध्यो वह्निः, तत्प्रतियोगिकोऽभावो वह्नयभावः, तदधिकरणं हृदादिः, तन्निरूपितवृत्तित्वं मीनादीनाम्, प्रवृत्तित्वम् = वृत्तित्वाभावो धूमस्येति लक्षणसमन्वयः । । .. . ___धूमवान् वह्नः' इत्यत्राऽलक्ष्ये (असद्धेतौ) साध्यो धूमः, तत्प्रतियोगिकाभावो धूमाभाव:, तदधिकरणमयोगोलकम् , तनिरूपितवृत्तित्वमेव वह्नौ, वृत्तित्वाभावो नास्तीति नातिव्याप्तिः।
वृत्तित्वाभावस्तु-वृत्तित्वसामान्याभाव एव धर्तव्यः । एतस्य फलन्तुधूमाभावाधिकरणं हृदोऽपि, तन्निरूपितवृत्तित्वाभावस्य वह्निहेतौ सत्त्वेपि नातिव्याप्तिः ।
अन्योन्याभावघटितलक्षणसमन्वयप्रकारो यथा-"तत्र अन्योन्याभावस्य प्रतियोगितावच्छेदकेन सह विरोध" इति नियमात् “साध्यवदन्यावृत्तित्वम्" इत्यपरं व्याप्तिलक्षणम् । एतदेव मूलकारेण चिन्तामणिग्रन्थादुद्धस्य प्रथमं विवेचितम्पश्चासिद्धान्तलक्षणं निरूपितम् । अत्रापि - साध्यवत्पदस्य पूर्वदर्शितरीत्या निरूढलक्षणयां साध्यवत्प्रतियोगिकोऽर्थः, तस्य चाऽभेदेन अन्यपदार्थैकदेशे भेदेऽन्वयः एकदेशान्वयमङ्गीकृत्यैव एतलक्षणप्रणयनात् , भेदस्य च स्वरूपेण अधिकरणेऽन्वयः, अधिकरणस्ये च निरूपितत्वसम्बन्धेन वृत्तिस्वे, वृत्तित्वस्य च प्रतियोगितयाऽभावेऽन्वय इति । तथा च-“साध्यवत्प्रतियोगिकभेदाऽधिकरणनिरूपितवृत्तित्वाऽभावो व्याप्तिः" इति लक्षणम्पर्यवसन्नम्।
. ... . “पर्वतो वह्निमान् धूमात्" इत्यत्र साध्यवत्प्रतियोगिको भेदो वहिमभेदः, तदधिकरणं हृदादिः, तन्निरूपितवृत्तित्वं मीनादीनां वृत्तित्वाऽभावो धूमस्येति लक्षणसमन्वयः।
* लक्ष्ये लक्षणसमन्वयोऽलक्ष्याद्यावृत्तिरिति लक्षणस्य साधुता, तां दर्शयति-- "साध्योवहिः"-इति । . +यस्याभावस्य प्रतियोगितावच्छेदकं प्रतियोगितासमानाधिकरणकं भवति स सामान्याभावः । यथा--"भूतले घटो नास्ति' इति प्रतीतिः घटसामान्याभावमवगाहते नतु घटविशेषाभावम्, अर्थात्--"घटो नास्ति" इति प्रत्यये घटाभावीया प्रतियोगिता यावद्घटनिष्ठा, प्रतियोगितावच्छेदकं घटत्वमपि सकलघटनिष्ठम्, अतः प्रतियोगितावच्छेदकस्य प्रतियोगितासमानदेशवृत्तित्वादयं सामान्याभावः । तथाच-स्वाऽन्यूनानतिरिक्तवृत्तित्व-स्वनिष्ठाऽवच्छेदकतानिरूपितत्वोभयसम्बन्धेन सामान्यधर्मविशिष्ट प्रतियोगिताकाभावत्वं सामान्याभावत्वम्" इति निष्कर्षः । प्रतियोगितावैशिष्ट्यञ्च धर्मे : स्वाऽन्यूनानतिरिक्तवृत्तित्व-स्वनिष्ठाऽवच्छेद्यतानिरूपितावच्छेदकतावत्त्वोभयसम्बन्धेन । प्रभावे तादृशधर्मवत्स्वञ्च स्वाऽवच्छिन्नप्रतियोगितानिरूपकत्वसम्बन्धेन । .