________________
२२२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
वचनाऽनुरोधेन व्याप्तिनिरूपणमारभते -"व्याप्य" इति । प्रकृतिसिद्धयनुकूल. चिन्ताविषयत्वमुपोद्घातत्वम् । प्रकृतञ्चात्र व्याप्तिलक्षणम् । “तत्र"-इति । घटकत्वं सप्तम्यर्थः । तथाच व्याप्तिज्ञानघटकीभूता का व्याप्तिरित्यर्थः । परममूलोकं लक्षणं घटयितुमाह-"वह्निमान्"- इत्यादि । असद्धेतुस्थले लक्षणस्यातिव्याप्तिशङ्कामुद्धरति - “धूमवान् वह्नः" इति ।
___ इदमत्रावधार्यम्-अन्वयव्यतिरेकभेदात् व्याप्तिर्द्विविधा । व्यतिरेकव्याप्तिरग्रे त्रिचत्वारिंशदधिकैकशततमकारिकाया व्याख्याने स्फुटीभविष्यति । अन्वयव्याप्तिरिहोच्यते । तत्र-"अत्यन्ताभावस्य प्रतियोगितावच्छेदकावच्छिन्नाधिकरणतया सह विरोध" इति नियमात् “साध्याभाववदवृत्तित्वम्" इति व्याप्तिलक्षणम् । अथ च "अन्योन्याभावस्य प्रतियोगितावच्छेदकेन साकं विरोध" इति नियमेन "साध्यवदन्यावृत्तित्वम्' इति लक्षणम्बोध्यम् । एतस्या व्याप्तेर्लच्यास्तु सद्धेतव एव यद्रचनायां पक्षसाध्यहेतुदृष्टान्तानां सत्त्वमावश्यकम्, अथ च हेतुनिष्ठं स्वव्यापकसाध्यकत्वमप्यपेक्षितम् । यथा-"पर्वतः संयोगेन वह्निमान् , संयोगेन धूमात् महानसवत्" इत्यत्र पर्वत: पक्षः, वह्निः संयोगेन साध्यः, धूमः संयोगेन हेतुः, महानसो दृष्टान्त: । अथ च धूमव्यापकवह्निसाध्यकत्वमप्यस्ति धूमे ।
"पर्वतो धूमवान् वह्वेर्महानसवत्" इत्यत्र पक्षादिचतुष्टयसत्त्वेऽपि वलिव्यापकधूमसाध्यकत्वं नास्ति, तेन धूमसाधनाय * उपन्यस्तो वह्विहेतुरसद्धेतुरेव ।
अथात्यन्ताभावघटितोक्कलक्षणस्य समासादिप्रदर्शनपूर्वक: समन्वयप्रकारः प्रदर्श्यते
___ साध्यस्याभावः साध्याभावः । साध्याभावोऽस्यास्तीति साध्याभाववान् । साध्याभाववति न विद्यते वृत्तिर्यस्य स साध्याभाववदवृत्तिः, तस्य भावः साध्याभाववदवृत्तित्वम् ।
अत्र च निपातातिरिक्तनामार्थयोर्भेदेनान्वयस्याऽव्युत्पन्नत्वात् तत्पुरुषसमासे पूर्वपदस्य लक्षणेति निरूढलक्षणया साध्यपदस्य साध्यप्रतियोगिकोऽर्थः, तस्य चाऽभेदेनाभावेऽन्वयः, अभावस्य च स्वरूपेण मतुवर्थेऽधिकरणेऽन्वयः, अधिकरणस्य च निरूपितत्वसम्बन्धेन वृत्तित्वे, तस्य च प्रतियोगित्वेनाऽभावेऽन्वय इति । तथाच-"साध्यप्रतियोगिकाभावाधिकरणनिरूपितवृत्तित्वाभावो व्याप्तिः" इति लक्षणम्पर्यवसम्मम् ।
विश्वेश्वराश्रमदण्डिनस्तु-साध्यस्याऽभावः साध्याभावः । साध्यस्थत्यत्र प्रतियोगित्वं षष्ठ्यर्थः । तत्र साध्यपदार्थस्य निरूपितत्वसम्बन्धेनान्वयः । षष्ठ्यर्थप्रतियोगित्वस्य च निरूपकत्वसम्बन्धेनाऽभावेऽन्वयः । अभावस्य च मतुबर्थेऽधिकरणेऽन्वयः । अधिकरणत्वस्य च निरूपितत्वसम्बन्धेन वृत्तित्वघटकवृत्तित्वेऽन्वयः ।
* "दत्त" इति पाठान्तरम् ।