________________
व्याप्तिनिरूपणम् ।
२२१
ननु-कथमिदं ज्ञानं तृतीयमिति चेद् ? उच्यते-प्रथमं दृष्टान्ते धूमज्ञानम् , सतो व्याप्तिज्ञानम् , ततः तद्विशिष्टपक्षधर्मताज्ञानमित्येवं रूपेण गृह्यताम् । परमिदं परामर्शस्य तृतीयज्ञानत्वम्प्रायिकम्बोध्यम् , यत्रादौ धूमदर्शनसमय एव "धूमो वह्निः . व्याप्य" इति ज्ञानम्, ततो “वह्निव्याप्यधूमवान्" इति परामर्शः, ततो “वह्निमान्' इत्यनुमितिः, तत्र तृतीयज्ञानत्वेन रूपेण व्यभिचारात्, परामर्शत्वेन रूपेण तूकज्ञानस्य न व्यभिचार इति न्यायसिद्धान्तमार्यादीनामाशयः ।।
(का०) व्याप्तिः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः ॥६॥
(प्रभा०) परममूले व्याप्तिं लक्षयति-"व्याप्तिः" इति । साध्यं तदस्यास्मिन्वास्तीति साध्यवान् , साध्यवतोऽन्यः साध्यवदन्यः, तस्मिन् असम्बन्धोऽवृत्तित्वं वृत्तित्वाभावो यद्धेतो: सैव ( साध्यस्य हेतुशिरसि ) व्याप्तिः । तथाच-साध्यवदन्यनिरूपितवृत्तित्वाभावो व्याप्तिरिति फलितम् ।
(मुक्का०) व्याप्यो नाम व्याप्त्याश्रयः, तत्र का व्याप्तिरित्यत श्राहव्याप्तिरिति । साध्यवदन्येति । वह्निमान् धूमादित्यादौ साध्यो वह्निः साध्यवान्महानसादिः, तदन्यो जलहदादिः, तदवृत्तित्वं धूमस्येति लक्षण. समन्वयः। धूमवान् वर्तरित्यादौ साध्यवदन्यस्मिंस्तप्तायःपिण्डादौ वह्नः सत्त्वान्नातिव्याप्तिः।
(प्रभा०) परामर्शलक्षणानन्तरं व्याप्तिनिरूपणे उपोद्घातसङ्गतिं निरूपयमाह-"व्याप्यो नाम"-इति । अर्थात् “नासतम्प्रयुञ्जीत" इति प्रामाणक
अयमत्र प्रकारान्तरेण द्वयोर्मतयोः सरलो विशेषो शेयः । समानाधिकरणयोरेकज्ञानीययो: विशेष्यताप्रकारतयोः समनैयत्यादभेद इत्येकीयं मतम् । तादृशयोरेव विशेष्यताप्रकारतयोः समनैयत्यादवच्छेद्याऽवच्छेदकभाव इत्यपरम्मतम् ।
तथाहि-आये मते "घटवद्भूतलम्" इति ज्ञाने घटो भूतलांशे विशेषणम, घटत्वांशे च विशेष्यम् । अत्र-घटनिष्ठायाः भूतलनिष्ठविशेष्यतानिरूपिताप्रकारतायाः घटत्वनिष्ठप्रकारतानिरूपितविशेष्यतायाश्च अभेदस्य स्वीकारेण घटत्वनिष्ठप्रकारतानिरूपिता या घटनिष्ठा प्रकारता; तन्निरूपिता या भूतलनिष्ठा विशेष्यता तच्छाली बोधो भवति । द्वितीये मते तु-'घटवद्भूतलम्" इत्यत्र घटत्वनिष्ठप्रकारतानिरूपिता या घटनिष्ठा विशेष्यता, तदवच्छिन्ना या घटनिष्ठा प्रकारता, तन्निरूपिता या भूतलनिष्ठा विशेष्यता, तच्छाली बोध इत्यङ्गीकारः । आचे मते तादृशविशेष्यताप्रकारतयोरभेदाङ्गीकारेऽपि तयोः प्रकारतारूपतैव नतु विशेष्यतारूपता । अत एतन्मते-घटत्वनिष्ठप्रकारतानिरूपिता या घटनिष्ठा विशेष्यता, तन्निरूपिता या भूतलनिष्ठा विशेष्यता इत्याकारको बोधो न भवति, किन्तु घटत्वनिष्ठप्रकारताऽभिन्नघटनिष्ठप्रकारतानिरूपिता या भूतलनिष्ठा विशेष्यता तच्छाली बोध इति सुधीभिरनुभावनीयम् ।