________________
२२०
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
प्रकारत्वयोः दण्डनिष्ठविशेष्यताप्रकारत्वयोश्चाभेदस्वीकारेण यथा दण्डनिष्ठविशेष्यतानिरूपितरकनिष्ठप्रकारता तथा दण्डनिष्ठविशेष्यत्वाभिन्नदण्डनिष्ठप्रकारतानिरूपिता रकनिष्ठप्रकारत्वाभिन्नरकनिष्ठविशेष्यता, तच्छालित्वादनदण्डवानिति बुद्धरिति प्रतिबध्यत्वापत्तिः। .
__ अवच्छेद्यावच्छेदकभावस्वीकारे तु अवच्छेद्यावच्छेदकभावस्य भेदनियतत्वात् दण्डनिष्ठविशेष्यत्वावच्छिन्नदण्डनिष्ठप्रकारतानिरूपितपुरुषनिष्ठेव विशेष्यता नतु रक्कनिष्ठविशेष्यतेति * श्रीविश्वेश्वराश्रमदण्डिनः ।
एवं दर्शितरीत्या तृतीयलिङ्गपरामर्शस्य अनुमितिहेतुता सिद्धा मीमांसकमतञ्च नादेयम् ।
* अत्र दण्डिनामयमाशय आभाति-एकनिष्ठविषयतयोरवच्छेद्यावच्छेदकभावः स्वीकार्यों नतु तयोरभेदः । अयमभिसन्धिः- "अरक्तदण्डवान्' इति बुद्धिनिष्ठप्रतिबन्धकतानिरूपिता “रक्तदण्डवान्" इति बुद्धिनिष्ठा प्रतिबध्यता । एवं "रक्तोऽदण्डवान्" इति बुद्धिनिष्ठप्रतिबन्धकतानिरूपिता "रक्त: दण्डवान्" इति बुद्धिनिष्ठा प्रतिबध्यता । तथाच-"रक्तदण्डवान्" इति रक्तत्वावच्छिन्नाऽभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यत्वाऽभिन्न प्रकारतानिरूपितपुरुषनिष्ठविशेष्यताशालिबुद्धिवावच्छिन्नम्प्रति "अरक्तदण्डवान्" इति प्रतियोगित्वसम्बन्धावच्छिन्नरतत्वाऽवच्छिन्नप्रकारतानिरूपितभेदवत्त्वाऽवच्छिन्नप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यत्वाऽभिन्नप्रकारतानिरूपितपुरुषत्वाऽवच्छिन्नविशेष्यताशालिनिश्चयः प्रतिबन्धकः । इत्येकः प्रतिबध्यप्रतिबन्धकभावः।
... अथ द्वितीयः प्रतिबध्यप्रतिबन्धकभावः । रक्तो दण्डवानिति-अभेदसम्बन्धावच्छिन्नदण्डवत्त्वाऽवच्छिन्नप्रकारतानिरूपितरक्तपुरुषत्वावच्छिन्नविशेष्यताशालिबुद्धित्वावच्छिन्नम्प्रति "रक्तोऽ दण्डवान्" इति दण्डाभाववत्वावच्छिन्नप्रकारतानिरूपितरक्तत्वाऽवच्छिन्नविशेष्यताशालिनिश्चयः प्रतिबन्धकः । एवं सति यदि चैकनिष्ठविषयतयोरभेद: स्वीक्रियत तर्हि "रक्तदण्डवान्" इति बुद्धौ "रक्तोऽदण्डवान्" इति रक्तविशेष्यकदण्डाऽभावप्रकारकज्ञानप्रतिबध्यत्वापत्तिः । रक्तत्वनिष्ठप्रकारतानिरूपितरक्तनिष्ठविशेष्यता, दण्डनिष्ठविशेष्यतानिरूपितरक्तनिष्ठप्रकारता, एवं पुरुषनिष्ठविशेष्यतानिरूपितदण्डनिष्ठप्रकारता, रक्तनिष्ठाकारतानिरूपितदण्डनिष्ठविशेष्यता । तथाचरक्तनिष्ठविशेष्यताप्रकारत्वयोः दण्डनिष्ठविशेष्यताप्रकारत्वयोश्चाऽभेदस्वीकारेण यथा दण्डनिष्ठविशेष्यतानिरूपितरक्तनिष्ठप्रकारता तथा दण्डनिष्ठविशेष्यत्वाऽभिन्नदण्डनिष्ठप्रकारतानिरूपिता रक्तनिष्ठप्रकारत्वाऽभिन्नरक्तनिष्ठविशेष्यता, तच्छालित्वात रक्तदण्डवानिति बुद्धेरिति ।
____अवच्छेचावच्छेदकभावस्वीकारे तु-अवच्छेद्यावच्छेदकभावस्य भेदनियतत्वात् दण्डनिष्ठविशेष्यत्वाऽवच्छिन्नदण्डनिष्ठप्रकारतानिरूपितपुरुषनिष्ठेव विशेष्यता नतु रक्तनिष्ठविशेष्यतेति न रक्तविशेष्यकदण्डवत्त्वप्रकारकरक्तदण्डवानिति बुद्धौ रक्तोऽदण्डवान् इति दण्डाभाववत्त्वप्रकारकरक्तविशेष्यकनिश्चयनिष्ठपतिबन्धकतानिरूपितप्रतिबध्यत्वापत्तिरिति ध्येयम्