________________
एकनिष्ठ प्रकारताविशेष्यतयोर्मतभेदेन प्रासङ्गिको विचारः । २१६
वच्छिन्नं कारणमिति ज्ञाने सत्येव विशिष्टज्ञाननिष्ठो गौरवनिश्चयो विरोधी वाच्यः । तद्गौरवञ्च तादृशानुमित्यव्यवहितपूर्ववर्ति यत्परामर्शज्ञानम्, तदाश्रयकमेवेति तादृशगौरवनिश्चयो विशिष्टज्ञानत्वेन कारणतानिश्चयाधीनः, अर्थात् विशिष्टज्ञाने कारणता - निश्वये सत्येव तत्र गौरवं निश्चीयेत, परं यावद् विशिष्टज्ञानमनुमित्यव्यवहित पूर्ववृत्ति सदनुमितिं नोत्पादयेत् तावत्तत्र गौरवनिश्चयोऽप्यसिद्धः स्यादिति कार्यकारणभावनिर्णयात्पूर्व गौरव निर्णयाभावात् न तादृशगौरवं दोषः ।
इदन्तु बोध्यम् - व्याप्तिप्रकारतानिरूपित हेतुप्रकारतानिरूपितपक्षविशेष्यताशालिज्ञानत्वेन विशिष्टज्ञानस्यानुमितिम्प्रति हेतुभावो विवक्षित इत्युक्रम्, तदेतत् एकनिष्ठप्रकारताविशेष्यतयोरभेदवादिमताभिप्रायेण । भट्टाचार्यमते तु व्याप्तिप्रकारता निरूपिता या हेतुनिष्ठा विशेष्यता, तदवच्छिन्न प्रकारतानिरूपिता या पक्षनिष्ठा विशेष्यता, तच्छालिज्ञानत्वेन कारणता बोध्या, एकनिष्ठ प्रकारताविशेष्यतयोरवच्छेद्यावच्छेदकभावस्वीकारात् । विशेष्यताप्रकारतयोरभेदस्वीकारे तु " रक्तदण्डवान् पुरुष" इति बुद्धी रक्तरूपविशेष्यक दण्डाभावनिश्चयप्रतिबध्यत्वापत्तेः । दण्डप्रकारतानिरूपितरक्तरूपनिष्ठविशेष्यताशालित्वात् तादृशबुद्धेरिति रामरुद्री |
अत्रायमाशयः - "रक्तदण्डवान् पुरुष" इत्यत्र रकनिष्ठा प्रकारता, दण्डनिष्ठा विशेष्यता, अर्थात् रक्कनिष्ठप्रकारतानिरूपिता दण्डनिष्ठा विशेष्यता । दण्डनिष्ठ - प्रकारतानिरूपिता पुरुषनिष्ठा विशेष्यता वर्त्तते । तद्यदि दण्डनिष्ठप्रकारताविशेष्यतयोरभेदः, एवञ्च — रक्रनिष्ठप्रकारताया श्रपि दण्ड निष्टविशेष्यतया सहाभेद इति दण्डनिष्ठप्रकारतास्वीकारे तन्निरूपिता रक्रनिष्ठा विशेष्यता श्रपि स्यात्, तथाच दण्डप्रकारतानिरूपितरक्तरूपनिष्ठविशेष्यतावगाहित्वात् उक्काकारा बुद्धिः " रक्तोऽदण्डवान्” इत्याकारकरक्त रूपविशेष्यकदण्डाभावनिश्चयेन प्रतिबध्या स्यात् नच तथेष्यते । तस्मादेकनिष्ठ प्रकारताविशेष्यतयोरभेदवादिना श्रवच्छेद्यावच्छेदकभावोऽवश्यं स्वीकार्य इति गदाधर भट्टाचार्याणामाशयः ।
1
श्रमुमर्थं स्पष्टीकुर्वन्ति — एकनिष्ठ विषय तयोरवच्छेद्यावच्छेदकभाव एव स्वीकार्यः । तयोरभेदस्वीकारे तु रक्रदण्डवानिति बुद्धेः रक्तोऽदण्डवानिति रक्तरूपविशेष्यकदण्डाभावप्रकारकज्ञानप्रतिबध्यत्वापत्तिः स्यात् । रक्तत्वनिष्ठ प्रकारतानिरूपितरकनिष्ठविशेष्यता, दण्डनिष्ठविशेष्यतानिरूपितर कनिष्ठप्रकारता । एवं पुरुषनिष्ठविशेष्यतानिरूपितदण्डनिष्ठप्रकारता, रक्तनिष्ठप्रकारता निरूपितदण्डनिष्ठः विशेष्यता, तथाच - २ - रक्तनिष्ठविशेष्यता·
* यथा—'वह्निव्याप्यधूमवानयम् पर्वतः " इत्यत्र वह्निव्याप्तिप्रकारता निरूपिता या धूमहेतुनिष्ठा विशेष्यता, तदवच्छिन्नप्रकारता निरूपिता=धूमहेतुनिष्ठविशेष्यतावच्छिन्न प्रकारतानिरूपिता पर्वतपक्षनिष्ठा विशेष्यता, तच्छालिज्ञानत्वेन ( दर्शिताकारेण ) कारणता = " पर्वतो वह्निमान् " इत्याकारानुमितिम्प्रति हेतुभाव इत्यर्थः । अस्मिन्नर्थे गमकं दर्शयति - " एकनिष्ठ " - इति ।