________________
•
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [ अनुमानखण्डे
हे ! मीमांसक ! यद्येवमुभयविधं ज्ञानं स्वीकरोषि अर्थात् " वह्निव्याप्यः " इत्याकारकं व्याप्तिप्रकारकम्, “धूमवान् पर्वतः " इत्यात्मकं पक्षधर्मताज्ञानमित्येवं रीत्या स्वतन्त्रं स्वतन्त्रमेव ज्ञानद्वयमनुमितिम्प्रति कारणं स्वीकरोषि येन तत्तत्पुरुषीयत्वनिवेशक्लेशोऽपि नास्ति, नापि च चैत्रीयव्याप्तिज्ञानकाले मैत्रीयात्मन्यनुमित्यापत्तिरूप दोष इति ब्रूषे, तदा तव मते कार्यकारणभावद्वयम् = व्याप्तिप्रकारकपक्षधर्मताज्ञानत्वेन कारणता, पचधर्मताविषयकव्याप्तिकारकज्ञानत्वेन वा कारणतेति विशेषणविशेष्यभावव्यत्यासेन कार्यकारणभावद्वयापत्तिरनिवार्या । एवञ्च प्रकारान्तरेण परामर्शस्यापि कारणता स्वीकृतेति सूक्ष्मेतिकया बोध्यम् ।
नैयायिको मीमांसकमते दोषान्तरमाह - "वह्निव्याप्य" - इति । अस्याऽयमाशयः - उतज्ञानद्वयस्य स्वतन्त्रकारणतावादिनस्तव मते " धूमो वह्निव्याप्य" इति व्याप्तिप्रकारकज्ञानम्, "श्रालोकवान् पर्वत" इति पचधर्मताज्ञानञ्च स्वतन्त्र - मेवास्तीति उक्काकारज्ञानद्वयेनापि " पर्वतो वह्निमान्" इत्यनुमितिस्तव मते स्यात् ।
२१८
ननु - तवापि मते " धूमो वह्निव्याप्यः " "धूमवान् पर्वत" इति ज्ञानद्वयं स्वीकृतम् । एवं विनिगमनाविरहेण कार्यकारणभावद्वयापत्तिः समानैवेति मीमांसकशङ्काम्परिहरन् स्वीय सिद्धान्ते दोषाभावं दर्शयति - " इत्थञ्च " - इत्यादिना । लाघवबलेन विशिष्टज्ञानस्य हेतुतायां सिद्धायामित्यर्थः ।
श्रयमत्र सिद्धान्त्याशयः - व्याप्तिप्रकारतानिरूपिता या हेतुप्रकारता, तन्निरूपिता या पक्षनिष्ठा विशेष्यता, तच्छालि यज्ञानम् " वह्निव्याप्यधूमवान् पर्वत" इत्याकारकम्, तत्रेनाऽनुमितिम्प्रति कारणता विवक्षिता । तेन " वह्निव्याप्यो धूमः” "प्रालोकवान् पर्वत" इत्याकारकज्ञानद्वयाद्, अथवा - " धूमो वह्निव्याप्यः " " धूमवान् पर्वत" इत्याकारकाद्वा ज्ञानान्नानुमितिः । उभयत्रापि व्याप्तिप्रकारतानिरूपितधूमनिष्ठविशेष्यतायाः पर्वतात्मक पक्षनिष्ठविशेष्यतानिरूपितप्रकारता रूपत्वाभावात् । श्रर्थात् - ' वह्निव्याप्यो धूम" इत्यत्र व्याप्तिप्रकारतानिरूपिता धूमनिष्ठा विशेष्यता । " श्रालोकवान् पर्वत" इत्यत्र प्रालोकनिष्ठ प्रकारतानिरूपिता पर्वतनिष्ठा विशेष्यता प्रतीयते, नतु दर्शितरीत्या व्याप्तिप्रकारतानिरूपित हेतुप्रकार तानिरूपितपक्षनिष्ठविशेष्यताशालिज्ञानत्वमस्ति, येन मम मते उज्ञानद्वयादनुमित्यापत्तिरूपो दोषः समुद्भवेत् ।
एवं यत्रापि ज्ञानद्वयं तत्रापि परामर्शात्मकविशिष्टज्ञानं कल्पनीयम् । नच गौरवं सर्वत्र दूषणं फलमुखगौरवस्य फलं कार्यकारणभावग्रहः तन्मुखं तदधीनं यगौरवं तस्य श्रदोषत्वात् दोषाभावरूपत्वात्, प्रतिबन्धकत्वासम्भवादिति प्रघट्टकार्थः । अयमभिसन्धिः - अनुमितित्वावच्छिन्नम्प्रति परामर्शात्मकविशिष्टज्ञानत्वाऽ* व्याप्तिप्रकारतानिरूपितहेतुप्रकारतानिरूपितपक्षनिष्ठ विशेष्यताशा लिज्ञानत्वेनानुमितिम्प्रति हेतुत्वं विवक्षितम् ।