________________
परामर्शविषये मीमांसकमतनिरासः।
२१७
तत्पुरुषीयपक्षधर्मताज्ञानं तत्पुरुषीयानुमितौ हेतुरित्युच्यते, तदाऽनन्तकार्यकारणभावः। मन्मते तु समवायसम्बन्धेन व्याप्तिप्रकारकपक्षधर्मताज्ञानं समवायसम्बन्धेनानुमितिअनयतीति नानन्तकार्यकारणभावः।
(प्रभा०) स्वयं मीमांसकाशयमुद्घाट्य खण्डयति-"यदि तु"- इत्यादिना । मीमांसकीयपूर्वपक्षग्रन्थस्यायमाशयः-न वयमन्यदीयव्याप्तिज्ञाने सति अन्यदीयपक्ष. धर्मताज्ञानस्य अनुमितिम्प्रति हेतुभावम्ब्रमः । किन्तु यस्य पुरुषस्य चैत्रस्य मैत्रस्य वा व्याप्तिज्ञानमभूत् तस्यैव तदानीं गृह्यमाणब्याप्यतावच्छेदकप्रकारकज्ञानं तदीयपक्षधर्मताज्ञानञ्चैतदुभयमेव तदीयानुमिती हेतुरस्तीति वदामः ।
नैयायिकोत्तरग्रन्थस्यायमर्थः-यद्येवं तदा अनन्त कार्यकारणभावः कार्यकारणभावानन्त्यमायातम्भवति, चैत्रादीनाम्पुरुषाणामानन्त्यात्, अर्थात्प्रतिपुरुषं तादृशज्ञानकल्पनया कार्यकारणभावानन्त्ये सति तव मते महगौरवमिति वृश्चिकभीतस्य सर्पमुखेऽगुलीदानन्यायमनुहरति । चैत्रादिपुरुषाणामानन्त्यात् कार्यकारणभावस्य अनन्तता ज्ञेयेति तात्पर्यम् ।
ननु-तवापि मते पुरुषानन्त्यात्कार्यकारणभावानन्त्यदोषः समान एवेति मीमांसकशङ्कां परिहर्तुमाह-"मन्मते तु"-इति। ___ यत्र-चैत्रे मैत्रे वा समवायसम्बन्धावच्छिन्नम् “वह्निव्यायधूमवानयम्" इति व्याप्तिप्रकारकपक्षधर्मताज्ञानञ्जातम् , तत्रैव समवायसम्बन्धावच्छिन्नानुमितिम्प्रति हेतुरिति कार्यकारणभावानन्त्यस्य गन्धोऽपि नास्ति ।
अत्र "मन्मते तु” इत्यस्याने “यत्र" “यस्य" वेति पदमध्याहृत्य ग्रन्थो योज्यः । एवमग्रेऽपि “तत्र" "तस्य" वेति योजनीयम् ।
_ (मुक्रा०) यदि तु व्याप्तिप्रकारकज्ञानम्पक्षधर्मताज्ञानश्च स्वतन्त्रं कारणमित्युच्यते, तदा कार्यकारणभावद्वयम् । “वह्निव्याप्यो धूम पालोकवान् पर्वत" इति ज्ञानादप्यनुमित्यापत्तिः स्यात् । इत्थञ्च यत्र ज्ञानद्वयं तत्रापि विशिष्टज्ञानं कल्पनीयम्फलमुखगौरवस्यादोषत्वात् ।
(प्रभा०) पुनरपि मीमांसकमतमुत्थाप्य प्रतिक्षिपति-“यदि तु"-इत्यादिना । व्याप्तिप्रकारकम्="*धूमा वह्निव्याप्यः' इत्याकारकं ययाप्तिप्रकारकं ज्ञानम् , पक्षधर्मताज्ञानम्= 'धूमवान् पर्वत" इत्याकारकं यत् पक्षधर्मताज्ञानञ्च तदेतदुभयं खतन्त्रम्-पृथक् पृथगेव कारणम् अनुमितिम्प्रति हेतुरित्युच्यते त्वया मीमांसकेनेति शेषः । अर्थात् एवमुभयज्ञानस्य स्वतन्त्रकारणतायां मन्मते तत्तत्पुरुषीयत्वनिवेशक्लेशो नास्ति, नापिच चैत्रीयव्याप्तिज्ञानकाले मैत्रस्यानुमितिप्रसङ्गरूपो दोष इति मीमांसकहृदयं यत् तत् खण्डयति सिद्धान्ती-"तदा" इत्यग्रिमग्रन्थेन ।
* वह्निनिष्ठव्यापकतानिरूपितव्याप्त्याश्रयः ।