________________
सविवृतिप्रभोपेताया न्याय सिद्धान्तमुक्तावल्याः [ प्रत्यक्ष खण्डे
( सुक्रा० ) किच- 'धूमवान् पर्वत" इति ज्ञानादनुमित्यापत्तिः, व्याप्यतावच्छेद की भूतधूमत्वप्रकारकपक्षधर्मताज्ञानस्य सत्त्वात् । नच तदानीं गृह्यमाणव्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानस्य हेतुत्वमिति वाच्यम्, चैत्रस्य व्याप्तिग्रहे मैत्रस्य पक्षधर्मताज्ञानादनुमितिः स्यात् ।
(प्रभा० ) अस्यायमर्थः - व्याप्यतावच्छेदकानवगाहि यद् " धूमवान् पर्वत” इत्याकारकज्ञानम्, अर्थात् कालान्तरीयदेशान्तरीययादृशतादृशधूमज्ञानम्, तस्मात् अनुमित्यापत्तिः = पर्वतो वह्निमान् इत्यनुमितिरापद्येत, यतो भवन्मन्तव्यानुसार मुक्ताकारं ज्ञानमपि व्याप्यतावच्छेदकी भूतधूम त्वप्रकारकपक्षधर्मतास्वरूपमस्त्येव । परतरलाघवकामेन भवता व्याप्तिस्मृतिरूपं द्वितीय ज्ञानमपि न मन्तव्यमित्याशयो नैयायिकस्य ।
२१६
श्राशङ्कय समाधत्ते – “नच" इत्यारभ्य " इति" इत्यन्तेन । “गृह्यमाण"इति । तदानीं गृह्यमाणम् = श्रनुमित्यव्यवहितप्राक्काले प्रत्यक्षज्ञानविषयीभूतञ्चक्षुरादीन्द्रियजन्यग्रहविषयीभूतं यद्व्याप्यतावच्छेदकम् = धूमत्वादि, तत्प्रकारकम् - स प्रकारो विशेषणं यस्मिन् तादृशं यत् पक्षधर्मताज्ञानम् = धूमादिलिङ्गस्य पर्वतादिवृत्तित्वज्ञानं तस्य तादृशव्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानस्य हेतुत्वम् अनुमितिम्प्रति कारणता "प्रस्तु" इति शेष इति वाच्यमिति नतु यादृशतादृशधूमज्ञानमिति मीमांसकशङ्काग्रन्थाऽर्थः ।
-
यद्येवं तदा चत्रस्य (महानसादिस्थले ) व्याप्तिग्रहे = व्याप्तिज्ञाने अर्थात् धूमो वह्निव्याप्यः" इत्याकार के ज्ञाने सति तत्पार्श्ववर्त्तिनो मैत्रस्यापि पचधर्मताज्ञानात् = "पर्वतो धूमवान्" इत्याकार कव्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानबलादनुमितिः स्यादिति = "पर्वतो वह्निमान्" इत्याकारानुमितिरापद्येत इति नैयायिकस्य समाधानग्रन्थार्थः । व्याप्तिप्रकारकनिश्चयस्य पचधर्मताविषयकनिश्चयस्य च सत्त्वादिति निगूढोऽभिप्राय नैयायिकस्य |
( मुक्रा० ) यदि तु तत्पुरुषीय गृह्यमाणव्याप्यतावच्छेदकप्रकारकं स्वीक्रियते, तदापि गृह्यमाणन्याप्यतावच्छेदकप्रकारकपक्षधर्म । ज्ञानत्वेन, पक्षधर्मताप्रकारीभवद्व्याप्तिज्ञानत्वेन वेति विनिगमनाविरहोऽपि बोध्यः । नच तवापि व्याप्तिप्रकारकपक्षधर्मताज्ञानत्वेन पक्षधर्मताविषयकज्ञानत्वेन वा परामर्शस्य हेतुत्वमिति विनिगमनाविरह इति वाच्यम्, ब्याप्तिप्रकारक - पचधर्मताज्ञानपर्याप्तविशिष्टवैशिष्ट्यविषायताया एव कारणतावच्छेदकत्वादित्याद्यन्यत्र विस्तरः ।
गृह्यमाणव्याप्त्यवच्छेदकधर्मप्रकारकपक्षधर्मता ज्ञानत्वेन, पक्षधर्मताविषयक व्याप्यतावच्छेदकप्रकारकज्ञानत्वेन वा हेतुत्वम् । एवम्पचधर्मताज्ञानप्रकारीभवद्व्याप्तिज्ञानत्वेन व्याप्तिप्रकारक ज्ञानविषयीभवत्पक्षधर्मताज्ञानत्वेन वा हेतुत्वमिति तव कार्यकारणभावचतुष्टयं बोध्यमिति न्यायसिद्धान्तमञ्जरीसारः ।
* शानचा ग्रहस्य वर्त्तमानताया अनभिधानान्न कालान्तरीयतादृशज्ञानमादाय दोषः ।