________________
परामर्शविषये मीमांसकमतनिरासः ।
२१५
उक्तम्मीमांसकमतं नैयायिकः खण्डयति - "इति चेन्न " - इत्यादिग्रन्थेन । "व्याप्यतावच्छेदकाऽज्ञानेपि " - इति । व्याप्यतावच्छेदक निर्णयाऽभावेपीत्यर्थः । अस्यायमाशयः - यदा कस्मिंश्चित् पर्वते “अयमालोको धूमो वा' इत्याकारकः सन्देहः समजनि । तत्र व्याप्यतावच्छेदकम्प्रकारः - विशेषणं यद् धूमत्वम्, तत्प्रकारको निर्णयस्तु नैव जातः, अर्थात् निश्चयात्मकन्ज्ञानं नाभूत्, तथापि तादृशस्थले वह्निव्याप्यवान् = वह्न्यभाववदवृत्तिमान् " श्रयमालोको धूमो वा" इत्याकारकसंशयात्म कादपि ज्ञानात् " पर्वतो वह्निमान्" इत्यनुमितिर्दृश्यते । तस्मादेतादृशस्थले व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानं व्यभिचारि सत् सर्वत्र नानुमितिम्प्रति कारणम् । श्रथ तत्रानुमितिरूपं कार्यम् = फलं दृष्ट्वा तादृशं हेतुभूत ज्ञानं कल्पयिष्यामः कारणं विना फलानुत्पत्तेरित्युच्येत मीमांसकेन, तत्रोच्यते - " लाघवाच्च " - इति । व्याप्यतावच्छेदकप्रकारकत्वापेक्षया व्याप्तिप्रकारकत्वस्य लघुत्वादित्यर्थः । व्याप्तिप्रकारकज्ञानत्वरूपं कारणतावच्छेदकप्रयुक्तं लालवं मम नैयायिकस्य मत इत्याशयः ।
अत्र सिद्धान्तिनोऽयमभिप्रायः - व्याप्यतावच्छेदकप्रकार कव्याप्तिज्ञानत्वेन, व्याप्यतावच्छेदकप्रकारकपचधर्मताज्ञानत्वेन चैतदुभयरूपेण कारणत्वापेक्षया "व्याप्ति प्रकारकपक्षधर्मताज्ञानत्वेन रूपेण कारणतायामवच्छेदकधर्मस्योपस्थिति कृतं लाघवमिति लाघवतर्कसहकृतैव कारणता स्वीकर्त्तव्या । मीमांसकमते तु दर्शितररीत्या कारणताःवच्छेदकधर्मोपस्थितिकृतम्परं गौरवमिति सर्वथा तन्मतं नादेयम् ।
1
ननु - परामर्शकारणवादिनस्तवापि मते " वह्निव्याप्यो धूम" इति व्याप्यतावच्छेदकप्रकारकं व्याप्तिज्ञानम् = स्मृतिरूपम् "पर्वतो धूमवान्" इत्याकारकं व्याप्यतावच्छेदकप्रकारकम्पचधर्मताज्ञानम्प्रत्यक्षरूपमितिद्वयमपि परामर्शम्प्रति कारणमस्ति । तथाच - परामर्शजनकत्वेन ज्ञानद्वयस्यानुमितिम्प्रति हेतुत्वमवश्यं वाच्यमिति कथमुच्यते गौरवम् ? अत्र ब्रमः - अन्यम्प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्यान्यम्प्रति पूर्ववृत्तित्वं गृह्यते, तत्तृतीयमन्यथासिद्धमित्युक्तम्प्राक् । यथा घटादिकम्प्रत्याकाशस्य । एवम्प्रकृतेपि उक्तज्ञानद्वयस्य परामर्शम्प्रति कारणत्वं गृहीत्वैव अनुमितिम्प्रति कारणत्वं प्राह्यमिति तदन्यथासिद्धमेव भविष्यति । तेन दर्शितरीत्या व्याप्तिप्रकारकपक्षधर्मताज्ञानत्वेन कारणतायां तादृशदीर्घावच्छेदको पस्थित्यभावप्रयुक्रं लाघवमेवास्माकम्मन्यताम् ।
अत्राह मीमांसकः - स्यादेतत् श्रवच्छेदकस्य भवन्मते लाघवम्, परन्तु धूमप्रत्यक्षम् व्याप्तिस्मरणम्, परामर्शश्चेति ज्ञानत्रयस्य कारणता कल्पनायां तवैव गौरवम्। श्रस्माकन्तु ज्ञानद्वयकारणतास्वीकारे परं लाघवमिति । तदेतत् परिहर्तुम् *किञ्च" - इत्यादि प्रथ्नाति ।
,
,
* यदि च निर्धर्मितावच्छेदकव्यभिचारज्ञानस्य विरोधित्वाभावात् निरुक्ताव्यभिचरितसामानाधिकरण्यविशिष्टधूमत्वादेरेव व्याप्तत्वात् परामर्शे नियमतो धूमत्वस्य तादृशविषयत्वं