________________
२१४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे अत एव “वह्निव्याप्यधूमवांश्चायम्" इत्याकारकः पक्षविशेष्यक एव उपनयः सर्वसम्मत इति ध्येयमिति दिनकरी।
___ (मुक्ता०) ननु-वह्निव्याप्यधूमवान्पर्वत इति ज्ञानं विनापि यत्र पर्वतो धूमवानिति प्रत्यक्षम्, ततो धूमो वह्निव्याप्य इति स्मरणम् , तत्र शानद्वयादेवानुमितिदर्शना । द्याप्तिविशिष्टवैशिष्टयावगाहिज्ञानं न सर्वत्र कारणम् , किन्तु-व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेनैव कारणत्वस्यावश्यकत्वात् , तत्र विशिष्टवैशिष्टयज्ञानकल्पने गौरवाश्चेति चेन्न, व्याप्यतावच्छेदकज्ञानेपि वह्निव्याप्यवानिति ज्ञानादनुमित्युत्पत्तेर्लाघवाच्च व्याप्तिप्रकारकपक्षधर्मताज्ञानत्वेनैव हेतुत्वम् ।
(प्रभा०) मीमांसकः शङ्कते-"ननु"-इति । “वह्निव्याप्यधूमवान्"इत्याद्यारभ्य शङ्काग्रन्थस्यायमाशय:-यत्र कुत्रचित् पर्वते “पर्वतो धूमवान्" इत्याकारक प्रत्यक्षातम् , ततो "धूमो वह्विव्याप्य:" वह्निनिरूपितव्याप्त्याश्रयः इत्याकारा स्मृतिर्जाता, तत्र-तस्मिन्नात्मनि ज्ञानद्वयादेव-प्रत्यक्षस्मृतिरूपज्ञानद्वयादपि 'पर्वतो वह्निमान्' इत्याकाराऽनुमितिर्जायते, तस्माद् “वह्निव्याप्यधूमवान् पर्वत” इत्याकारकम्परामर्शज्ञानं सर्वत्र-अनुमितित्वावच्छिन्नम्प्रति न कारणम् अनुगतं कारणं नेत्यर्थः । * किन्तु व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन-व्याप्यतावच्छेदकं यद् धूमत्वं तत् प्रकारक यत् पर्वतो “पर्वतो धूमवान्" इत्याकारकम्पक्षधर्मताज्ञानम्-धूमविशिष्टपर्वतज्ञानम् , पर्वतवृत्तिधूमज्ञानं वा तादृशज्ञानत्वेन कारणता सर्वमतसिद्धा, अनुमितिरूपकार्याव्यवहितपूर्वक्षणे उक्तज्ञानस्य-व्याप्यतावच्छेदकपक्षधर्मताज्ञानस्य विद्यमानत्वात् । इत्थञ्च सवत्राऽनुमितिषु “पर्वतो धूमवान्" इत्यादि प्रत्यक्षम् “धूमो वह्निव्याप्य' इत्यादि व्याप्तेः स्मरणात्मकं ज्ञानद्वयमेवावश्यकम् , मध्ये तृतीयस्य परामर्शात्मकज्ञानस्य गौरवयुता कल्पना वृथैवास्ति नैयायिकानाम् । गौरवञ्च प्रकृते उपस्थितिकृतं बोध्यम् ।
+ व्याप्तिः “यत्र धूमस्तत्र वह्नि' इत्याकारा साहचर्यनियमस्वरूपा, तद्विशिष्टो धूमः, तस्य विशिष्टस्य धूमस्य वैशिष्टयम् “वहिव्याप्यधूम” इत्याकारकं तदवगाहिज्ञानम् “वह्निव्याप्यधूमवान् पर्वत' इत्याकारकम्परामर्शज्ञानमिति निर्गलितोऽर्थः ।
. अत्रेदमवश्यं सुधीभिध्येयम्--प्रथमं "पर्वतो वह्निमान्" इति पक्षधर्मताज्ञानम्भवति, तत:--"यत्र धूमस्तत्रामिः" इति अर्थात् “बहिव्याप्यो धूम” इति व्याप्तिस्मरणम् , उभाभ्यामाभ्यां विशेषणात्मकज्ञानाभ्याम् “वहिव्याप्यधूमवान् पर्वत" इत्याकारम्परामर्शज्ञानम् , ततः "पर्वतो वह्निमान्" इत्येवमनुमितिः इत्येवंरूपः, व्याप्तिस्मृतिपरमर्शाऽनुमितीनामुत्पत्तिक्रमः अर्थात् हेतुहेतुमद्भावोऽस्तीति ।
* स्वमतसिद्धरूपेण अनुमितौ कारणतोपपादनार्थमाह-"किन्तु'' इति ।