________________
परामर्शः ।
२१३ वानिति ज्ञानं वा । अनुमितिस्तु पक्ष व्याप्य इति ज्ञानात्पक्षे साध्य. मित्याकारिका । पक्षो व्याप्यवानिति ज्ञानात्पक्षः साध्यवानित्याकारिका। द्विविधादपि परामर्शात्पक्षः साध्यवानित्येवानुमितिरित्यन्ये ।
(प्रभा०) सम्प्रति अनुमितौ व्यापारभूतम्परामर्श लक्षयति परममूले"व्याप्यस्य"- इति । "व्याप्तिविशिष्टपक्षधर्मताज्ञानम्परामर्श" इति फलितम् । तदेतद् विवृणोति-"व्याप्यस्येति" इति । "व्याप्तिविशिष्टस्य" इति । अयमत्र ग्रन्थयोजनाप्रकारः- व्याप्यस्येति षष्ट्यर्थो & विषयित्वम् । पक्षे पर्वतादौ वर्तमानत्वमाधेयतावत्त्वमिति यावत् । पक्षवृत्तित्वस्य धीः पक्षवृत्तित्वधीरिति षष्ठीतत्पुरुषः। अत्रापि विषयित्वमेव षष्ठयर्थः । ‘पक्षे” इति सप्तम्यर्थश्च निरूपितत्वम् , तथाच व्याप्तिविशिष्टनिष्ठविषयतानिरूपकं सत् पक्षनिरूपितवृत्तित्वनिष्ठविषयतानिरूपकं यज्. ज्ञानम् “ वहिन्याप्यो धूमः पर्वते” इति “वह्निन्यायधूमवान् पर्वत" इति वा अस्तिस एव "परामर्श" उच्यते । एनमर्थ हृदि कृस्वैव "व्याप्तिविशिष्टस्य"इत्यादि ग्रन्थ उक्तः। ___ यद्वा एवं लापनीयम्-व्याप्तिविशिष्टस्य साध्यनिरूपितव्याप्तिविशिष्टस्य पक्षण= पर्वतादिना सह वैशिष्टयावगाहिज्ञानम् व्याप्त्यवच्छिन्नविषयतानिरूपितपक्षतावच्छेदकावच्छिन्नविषयताशालिनिश्चयस्वरूपं यत् तत् परामर्शः=पारिभाषिकपरामर्शपदवाच्यः । तथाच-“वह्निव्याप्यधूमः पर्वते" अथवा "वहिव्याप्यधूमवान् पर्वत" इत्याकारकं. म्ज्ञानं व्याप्स्यवच्छिन्नधूमादिनिष्ठविषयतानिरूपितपर्वतत्वाद्यवच्छिन्नविषयताशालीति लक्षणसङ्गतिः।
अस्यैव परामर्शज्ञानस्य विशेषणविशेष्यभावव्यत्यासेन स्वरूपद्वयं दर्शयति"तच्च" इत्यादिना । तत्राद्यम्पक्षप्रकारकं व्याप्तिविशिष्टविशेष्यकम् “ब्याप्यः धूमादिः पक्षे-पर्वतादौ" इत्याकारकम् । द्वितीयन्तु व्याप्तिविशिष्टप्रकारकम्पक्षविशेष्यकम् “पक्षः= पर्वतादिः व्याप्यवान् धूमादिमान्” इत्याकारकम् । ___"अनुमितिस्तु"-इति । प्रथमपरामर्शेन “पक्षे व्याप्य" इत्याकारेण "पक्ष साध्यम्" अर्थात् पक्षप्रकारकं साध्यविशेष्यकम्=पर्वतादौ वह्वयादि इत्याकारकमनुमितिज्ञानञ्जायते । द्वितीयेन तु “पक्षो व्याप्यवान्" इत्याकारकेण अर्थात् "पक्षः साध्यवान्" साध्यप्रकारकम्पक्षविशेष्यकम्=पर्वतादियादिमान् इत्याकाराऽनुमितिर्भवति । अत्रैव नव्यमतमाह-"द्विविधादपि"-इति । पक्षविशेष्यकव्याप्यविशेष्यकोभयविधपरामर्शादपीत्यर्थः । वस्तुतस्तु-अनुभवानुरोधात् पक्षविशेष्यकपरामर्श एव हेतुः ।
* विषयित्वञ्च विषयतानिरूपकत्वम् । विषयता च प्रकारतानवशेष्यतासंसर्गतेतित्रितयानुगता बोध्या ।