________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्षखण्डे
(प्रभा० ) अत्रैव हेतुमाह परममूले - " अनागतादिलिङ्गेन" - इति । अना - गतेन = भविष्यता, श्रादिपदात् भूतेन श्रतीतेन, लिङ्गेन = व्याप्येन धूमादिना तदा= अनुमितिकरणकाले अनुमितिः श्रयं वह्निमान्" इत्याद्याकारकं साध्यविशिष्टज्ञानं न स्यात् = नैव भवेदित्यर्थः ज्ञायमानलिङ्गाभावात् धूमादिदर्शनाभावादिति सान्वयः कारिकार्थः । मूले – “युक्तिमाह " - इति । अस्यायमर्थः - " इयं यज्ञशाला वह्निमती भविष्यति भाविधूमात्" "इयञ्च वह्निमत्यभूत् भूतधूमात्” इति यथाक्रममनागतेन भूतेन च लिङ्गेन वह्नेरनुमानं न स्यात्, यदि ज्ञायमानं लिङ्गं करणं स्यात् । हि भूतभविष्यतो : कायोर्धूम लिङ्गज्ञायमानं वर्त्तते । लिङ्गज्ञानस्य श्रनुमितिकरणत्वे तु नानुमित्यसम्भवो दोषः, तदा ज्ञानलक्षणया प्रत्यासत्या + यज्ञशालादौ (पत्ते) लिङ्गज्ञानस्य सत्त्वादिति युक्तिरित्यर्थः । श्रतएव रामरुया मुक्तम् – “विषयितासम्बन्धेन तद्विशिष्टज्ञानमेव अनुमितिर्हेतुर्बोध्य" इत्युक्तम् । एवञ्च लिङ्गज्ञानम् = व्याप्तिज्ञानमेव करणमिति सिद्धान्तः ॥६७॥
(का० ) व्याप्यस्य पक्षवृत्तित्वधीः परामर्श उच्यते ।
( मुक्का० ) व्याप्यस्येति । व्याप्तिविशिष्टस्य पक्षेण सह वैशिष्ट्या - ग। हिज्ञानमनुमितिजनकम् । तच्च व्याप्यः पक्ष इति ज्ञानम्पक्षो व्याप्यश्रमूर्त्तत्वाद् गुणो नैव क्रियां साधयितुं क्षमः ।
तस्मात् क्रीणातिना नास्य सम्भवत्येकवाक्यता ॥ इति ।
प्रातश्च तृतीया श्रुतिरविनियोजिका जाता, तेन ज्योतिष्टोम प्रकरणगत ग्रह चमसादीन् करणत्वेनोपदिष्टाननूद्यारुण्यगुणो विधीयताम् । ततश्च “अरुणया " इति भिन्नं वाक्यम्, पिङ्गाक्ष्येति च भिन्नम् । तत्राद्यस्य “येन केनापि द्रव्येण यत् किञ्चित् क्रियते तेनारुणेनैव कर्त्तव्यम्” इति वाक्यार्थः । अतः प्राकरणिकद्रव्यमात्र आरुण्यगुणनिवेश इति पूर्वपक्ष: । सिद्धान्तस्तु- - द्रव्य. गुणयोरेकक्रियान्वयित्वरूपार्थैकत्वे सम्भवति तयोः परिच्छेद्य परिच्छेदकभावनियमः एकार्थप्रति - पादकत्वरूपैकवाक्यत्वात् । एवञ्च तृतीयया श्रुत्या यथा पिङ्गाच्यादेः करणत्वं तथा तद्विशेषणीभूतारुण्यगुणस्यापि खलेकपोतन्यायेन सर्वकारकाणां साक्षात् क्रियान्वयित्वनियमात् । उक्तञ्च वार्त्तिके-
२१२
कारकं ह्युच्यतेऽकुर्वन्न क्रियां तत्करोति च ।
तस्मान्न द्रव्यसम्बन्धः कारकस्यास्ति कस्यचित् ॥ इति ।
विस्तरस्त्वन्यतोऽनुसन्धेयः । एवं यथा मीमांसकसिद्धान्ते गोविशेषणीभूतानाम (रुण्यादीनामपि सोमक्रयण साधनता प्रतीयते, तद्वत् परमर्शविशेषणस्यापि लिङ्गस्य कारणतायां न बाधकमिति प्राचामभिप्रायः ।
* स्वसंयुक्तमनः संयुक्तात्मसमवेतस्मृतिज्ञानविषयत्वाख्येनालौकिकेन सन्निकर्षेण । + " यज्ञशालादौ लिङ्गज्ञानस्य सत्त्वात्" इत्यत्र विषयतासम्बन्धेनेति शेषः ।