________________
अनुमितिविषये प्राचां मतस्य खण्डनम् । "महानसादौ"-इत्यादिना गोष्टचत्वरादीनां सङ्ग्रहः । “वाप्तिः"इति । “यत्र धूमस्तत्र वह्निः" इति साहचर्यरूपा व्याप्तिरित्यर्थः । "अविच्छिन्नमूलाम्" इति ।। धूमेनाव्यभिचरितामित्यर्थः । तदनन्तरम-धूमदर्शनानन्तरमित्यर्थः । अर्थात् धूमदर्शनं व्याप्तिस्मरणे उद्बोधकतया कारणम् , यतः "एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकम्" इत्यस्ति नियमः । ततश्च यादृशविशेषणविशिष्टस्य धूमस्य व्याप्तिसम्बन्धितया भानं तादृशधूमदर्शनमेव व्याप्तिस्मृतावुद्धोधकमित्यभिप्रायेण "अविच्छिन्नमूलाम्" इत्युक्तम् । वहिव्याप्य: वह्निनिरूपितव्याप्त्याश्रयः ।
(का०) ज्ञायमानं लिङ्गान्तु करणं नहि ।
(प्रभा०) अनत्यम्प्राचीनमतं निरस्यति-"शायमानम्" इति । ज्ञानगोचरो वर्तमानकालीनज्ञानविषयीभूतं वेत्यर्थः । धूमादिकं लिङ्गं नहि नैव करणम् ।
(मुक्ता०) अत्र प्राचीनास्तु व्याप्यत्वेन ज्ञायमानं लिङ्गमनुमितिकरणमिति वदन्ति, तदूषयति शायमानमिति ।
(प्रभा०) “व्याप्यत्वेन'- इति । साध्यनिरूपितव्याप्त्याश्रयत्वेन । "शायमानम्" इति । ज्ञातं सदित्यर्थः ।
(का०) अनागतादिलिङ्गेन न स्यादनुमितिस्तदा ॥६७॥ __ (मुक्ता०) लिङ्गस्यानुमित्यकरणत्वे युक्तिमाह-अनागतादीति । यदि अनुमितो लिङ्गं करणं स्यात्तदाऽनागतेन विनष्टेन वा लिङ्गेन अनुमितिर्न स्यादनुमितिकरणस्य लिङ्गस्य तदानीमभावात् ॥६७॥ .
पर्वताऽसम्बद्धधूमलेखाया वह्निसामानाधिकरण्याभावेन वहिव्याप्यत्वाभावत्वात् तज्ज्ञानस्य व्याप्तिज्ञानसम्बन्धत्वाभावेन उद्बोधकत्वासम्भवात् अविच्छिन्नमूलामित्युक्तम् । पर्वतसम्बद्धाम् , अन्तराऽवच्छेदर हतामिति तु परमार्थः ।
__ अत्रेदम्बोध्यम्-अनुगितौ परामर्शमात्रं न हेतुरपितु लिङ्गपरामर्शः । तथाच-- विशिष्टस्य कारणताग्रहे विशेषणस्यापि कारणताग्रहात् परामृश्यमानलिङ्गस्य लिङ्गपरामर्शस्य वा हेतुतेत्यत्र विनिगमनाविरहादुभयोहेतुतासिद्धी.. तत्र च व्यापाराभावान्न परामर्शस्य. कारणता, किन्तु .लिङ्गस्यैवेति प्राचामाशय इति दिनकरी । अत्र प्रकाशकारस्यायमाशयः- "असति बाधके विशिष्टस्य कारणताग्राहकप्रमाणेन विशेषणांशेऽपि कारणताग्रहः" इति । युक्तचैतत् , अन्यथा अरुणाधिकरणन्यायोपि न घटेत । अयं न्यायः पूर्वमीमांसायास्तृतीयेऽध्याये प्रथमे पादे षष्ठेऽधिकरणे प्रदर्शितः। यस्यैष सार:--"अरुणया पिङ्गाक्ष्यैकहायन्या गवा सोमं क्रीणाति" इति श्रूयते । अत्रारुणाशब्दो गुणिविषयतया प्रयुज्यमानोऽपि अरुणं गुणमाचष्टे 'नागृहीतविशेषणा बुद्धि.. विशिष्टे उपजायत" इति न्यायात् । अन्वयव्यतिरेकाभ्यां तत्रैव व्युत्पत्तेश्च, तृतीयया श्रुत्या पारुण्यस्य क्रयसाधनत्वं प्रतीयते, परन्तु न युज्यते अमृतस्यारुण्यस्य वासोहिरण्यादिवत् क्रयसाधनत्वासम्भवात् । उक्त च---.......