SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २१० सविवृतिप्रभोपेताया न्यायासद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे रेवावश्यकी, तत्रैव च -अनुमितिनिरूपणप्रतिबन्धिका 'किम्प्रत्यक्षम्' इत्याकारिका शिष्यजिज्ञासा जायते, ततः प्रत्यक्षनिरूपणेन तादृशजिज्ञासानिवृत्तौ अनन्तरोपस्थिताऽ. नुमितेरेव वक्तव्यतया अवसरसङ्गतेरेव लाभान्नोपजीव्योपजीवकभावरूपा प्रत्यक्षाऽनुमानयोः सङ्गतिः, अनुमितौ प्रत्यक्षोपजीवकत्वस्येव प्रत्यक्षेऽनुमित्युपजीवकत्वस्यापि सत्त्वेन प्रकृते तस्याऽनन्तर्याभिधानकत्वनियमासम्भवात् । एतद्विषयकविस्तरस्तु मथुरानाथीयचिन्तामणिटिप्पण्यामनुसन्धेयम् । ___परममूले अनुमिति निरूपयति-व्यापारस्तु"-- इति । अयमाशयः"पर्वते वह्निज्ञानं मे जायताम्" इत्याकारायामनुमित्सायाजातायाम्पर्वते पक्षे तल्लिङ्गं धूममालोक्य “यन धूमस्तत्राग्निः" इति वह्निधूमयोरनेकवारं साहचर्यानुभवलक्षणां व्याप्तिं स्मृत्वा "वह्निव्याप्यधूमवांनयम्पर्वत' इति परामर्शोत्तरं यद् “वह्निमानयम्" इति ज्ञानञ्जायते तदेवानुमितिः । * अत्र करणादि दर्शयितुमाह-"व्यापार"इति । अनुमायाम् अनुमितौ परामर्शो वक्ष्यमाणलक्षणो ज्ञानविशेष: व्यापारः । तजन्यत्वे सति तजन्यजनकत्वरूप: करणलक्षणघटक इत्यर्थः । व्याप्तिधीः व्याप्तिज्ञानं वक्ष्यमाणलक्षणं करणम् असाधारणं कारणम्भवेदित्यर्थः । (मुक्का०) अनुमिति व्युत्पादयति-व्यापारस्त्विति । अनुमायामनुमितौ व्याप्तिज्ञानं करणम् । परामर्शो व्यापारः । तथाहि-येन पुरुषेण महानसादौ धूमे वाप्तिर्गृहीता पश्चात्स एव पुरुषः क्वचित्पर्वतादावविच्छिन्नमूलां धूमलेखाम्पश्यति । तदनन्तरम् “धूमो वह्निव्याप्य" इत्येवंरूपं व्याप्तिस्मरणं । भवति । पश्चाच्च “वह्निव्याप्यधूमवानयम्" इति ज्ञानम्भवति, स एव “परामर्श" इत्युच्यते । तदनन्तरम् "पर्वतो वह्निमान्" इति ज्ञानम् , तदेवानुमितिः ॥६६॥ ... (प्रभा०) एतदेव स्पष्टीकरोति मुनावल्याम् “अनुमायाम्" इत्यादिग्रन्थेन । "व्याप्तिक्षानं करणम्" इति । स्वीयपरामर्शरूपव्यापारद्वारा "व्यापारवदसाधारणं कारणं करणम्" इति लक्षणलक्षितत्वेन अनुमितिकरणत्वात्करणम् । “परामर्शी व्यापार"--इति । व्याप्तिज्ञानजन्यत्वे सति व्याप्तिज्ञानजन्यानुमितिजनकतया व्यापारः । यथा च परामर्शस्य व्यापारत्वं न व्यभिचरति तथा दर्शयति"तथाहि"-इत्यादिना। * अन्न-अनुमितौ। __ "तस्य भवति" इति युक्तः पाठः । तस्यैव भवतीत्यर्थः । अनुभवस्मरणयोः सामानाधिकरण्येन कार्यकारणभावादिति भावः। . . * चक्षुःसंयोगादावतिव्याप्तिवारणाय व्यापारवत्त्वनिवेशः । आत्ममनःसंयोगद्वारा कारणीभूतात्मादौ अतिव्याप्तिवारणाय असाधारणेति ।
SR No.002363
Book TitleNyayasiddhant Muktavali
Original Sutra AuthorN/A
AuthorMaherchand Lakshmandas
PublisherMaherchand Lakshmandas
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy