________________
अनुमानखण्डम् ।
(का०) व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत् ॥६६।।
अनुमायाम्(प्रभा०) नत्वा शङ्करचरणं शरणम्भरणं स्वभक्तहितकरणम् ।
सम्प्रति सुटीकयामि स्वगुरोः कृपयाऽनुमानमतिकठिनम् ॥१॥ * अनुमानखण्डमेतं मम रचितां रीतिमाश्रित्य ।
सत्यं नैव भयं स्यात्पठतोऽवच्छेदकादिपरिभाषाम् ॥२॥ - "अनुमितिम्" इति। प्रत्यक्षनिरूपणानन्तरमनुमितिनिरूपणे उपजीन्योपजीवकभाव(कार्यकारणभाव) रूपा सङ्गतिर्बोध्या । सङ्गतिसामान्यलक्षणन्तु-"एकवाक्यतापनत्वे सति अनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयत्वम्" इति । प्रत्यक्षाभिधानानन्तरं तत्प्रयोजिका जिज्ञासा "प्रत्यक्षकार्यम्भवतु" इत्याकारा तजनकं ज्ञानम् “प्रत्यक्षज्ञानकार्यमिष्टसाधनम्" इत्याकारकम् , तद्विषयः "प्रत्यक्षकार्यत्वम्" इति लक्षणसमन्वयः । एवमन्यत्रापि।
परे तु-प्रत्यक्षनिरूपणानन्तरमनुमाननिरूपणेऽवसरसङ्गतिमाहुः । तेषामयमाशयः । “प्रत्यक्षमनुमितिस्तथो"-इत्यादिविभागवाक्यात् प्रथमतः प्रत्यक्षस्योपस्थिति
ॐ मम रचितां रीतिमाश्रित्य अवलम्ब्य एनमनुमानखण्डम्पठतः अवच्छेदकादिभाषाम्पठतो भयं नैव स्यादिति सत्यम् । एवञ्च --पठत इत्यकस्यैव पदस्य तन्त्रेणाभयत्रान्वयो बोध्यः । "खण्डोऽर्ध ऐक्षवे मणिदोषे च” इति हैमः । “खण्डोऽस्त्री शकले नेतुविकारमणिदोषयोः । खण्डः पानान्तरे भेदे" इति कोशान्तरम् ।
अनुमितित्वञ्च-अनुमिनोमीत्यनुभवसिद्धो जातिविशेषः । केचित्तु--"जन्यज्ञानजन्यत्वाव्यभिचारि" इति लक्षणमाहुः । तस्यायमर्थ:--जन्यज्ञानम् व्याप्तिज्ञानं तज्जन्यत्वमनुमितौ तदन्यभिचारित्वमनुमितिस्वधर्म बोध्यम् । * सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा ।
निर्वाहकैककार्यत्वे षोढा सङ्गतिरिष्यते ॥ इति । उपोद्घातादिभिन्नः स्मरण प्रयोजकसम्बन्धः प्रसङ्गः । प्रकृतोपपादकत्वमुपोद्घातः । हेतुता उपजीव्योपजीवकभावः । अवसरोऽनन्तरवक्तव्यत्वम् । निर्वाहकैक्यमेकप्रयोजक. प्रयोज्यत्वम् । कार्यैक्यमेककार्यानुकूलत्वमित्याद्यन्यत्र विस्तरः ।