________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्षखण्डे
व्युत्पन्नः समाध्यर्थो नतु "युजिर् योगे" इत्यस्मात्संयोगार्थ इत्यर्थ इति वाचस्पत्यकाराः । "श्रुतिपुराणादिप्रतिपाद्य” - इति । " युञ्जते मन उत युञ्जते धियः” (श्वे० २.४) " ततस्तु तम्पश्यति निष्कलं ध्यायमानः" इत्याद्या श्रुतिः । “यत्समत्वं द्वयोरत्र जीवात्मपरमात्मनो: । स नष्टसर्वसङ्कल्पः समाधिरभिधीयते ॥ " इत्यादि पुराणञ्च द्रष्टव्यम् । श्रादिपदेन स्मृत्यादिपरिग्रहः ।
२०८
अस्य द्वैविध्यं दर्शयति – “युक्तयुञ्जान" - इति । श्रतिरोहितार्थमन्यत् । श्रन्याहत गतित्वेन सर्वविषयम्भानं युक्तस्य योगिनः युक्तयोगजसन्निकर्षेण । अपरो युञ्जानः योगसाधनपरस्तु चिन्तासहकृत: चिन्तारूपं सहकारिणमपेक्षते । समाधिस्थ एव युआननामकयोगजसन्निकर्षेण सर्वम्पश्यति नतु समाधिरहितोऽपि । श्रतिरोहितार्थमन्यत् । सर्वस्यास्य ग्रन्थस्य मूलन्तु — "श्रार्ष सिद्धदर्शनञ्च धर्मेभ्यः " ( वै १०।२१३ ) इत्यादिसूत्रन्तत्तदनुषङ्गिः प्रशस्तञ्च निरीक्ष्यम् । बालानामनुपयोगाद् ग्रन्थगौरवभयाच्च न बहु प्रपञ्चितम् ।
इति श्रीमहाकविभगवद्दत्त श्रीन्यायाम्भोनिधि- उष्णाकरायशिष्येण श्रीपण्डितदेवीदास - तनुजनुषा सतीविष्णुदेवीगर्भजेन श्रीजैन न्यायविशारदकवितार्किक दर्शनाचार्यनृसिंहदेवशास्त्रिया विरचितायां सिद्धान्तमुक्तावल्याः प्रभाख्यायां
व्याख्यायाम्प्रथमम्प्रत्यत्तखण्डम् |
समाप्ता च प्रत्यक्षस्वरूपनाम्नी तुरीया मुक्का ।