________________
योगजसन्निकर्षः।
२०७
ज्ञानलक्षणा त्यज्येतैव, किन्तु ज्ञानलक्षणयैव धूमत्वेन धूलीपटलविषयकज्ञानप्रकारकधूमज्ञानवानहमित्याकारकप्रत्यक्षनिरूपितविषयत्वमिति भावः ।।
इदमत्राकृतकम्- ज्ञानविषयकज्ञानमनुव्यवसाय इत्यवोचाम । परमिदमनुव्यवसायात्मकज्ञानं "स्वसंयुक्तात्मसमवेतत्वाख्यन" मानसेन लौकिकेन सम्बन्धेन स्वविषयीभूतम्ज्ञानं तद्विषयं घटादिञ्च विषयीकुर्वदेव जायते । अत्र "स्व"शब्देन मनोग्रहणं तत्संयुक्त प्रात्मा तस्मिन् ज्ञानस्य समवेतत्वात् । अस्यानुव्यवसायाख्यस्य "अहङ्घटनानामि" इत्याकारकस्य बार्घिटादिभिः साकं नैव कश्चिल्लौकिकः सम्बन्धः । सम्बन्धं विना च ज्ञानं कथायेत विषयञ्च प्रकाशयेत, तस्मात् अनुव्यवसायद्वारा घटादिविषयभानाय "स्वसंयुक्तात्मसमवेतज्ञानविषयत्वाख्य" एवालौकिकः सम्बन्धो ज्ञानलक्षणात्मकः स्वीकर्तव्यो भवति । अत्रापि यद्यपि घटादिविषयभानाय सामान्यलक्षणैव प्रभ्वी, तथापि (अनुव्यवसाये) घटत्वादिधर्मभाननिर्वाहस्तु ज्ञान लक्षणयैवेति बोध्यम् ।
एवमेव धूलीपटलादिभ्रान्तिस्थलेऽपि (धूमत्वाभाववति धूलीपटलादौ धूमत्वप्रकारकज्ञानस्य भ्रमरूपत्वात्) धूमधूमत्वयोरुभयोरपि भानज्ञानलक्षणया स्वसंयुक्तात्मसमवेतज्ञानविषयत्वरूपयेति बोध्यम् । वस्तुतो धूलीपटलादौ धूमत्वादिधर्माभावात् "प्रासत्तिराश्रयाणान्तु'' इत्यादिसामान्यलक्षणालक्षणस्य योजयितुमशक्यत्वादिति दिक् । (का०) योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभेदतः ॥६५॥
(मुक्का०) योगाभ्यासजनितो धर्मविशेषः श्रुतिपुराणादिप्रतिपाद्य इत्यर्थः । युक्तयुआनभेदत इति । युक्तयुजानरूपयोगिद्वैविध्याद्धर्मस्यापि द्वैविध्यमिति भावः ॥६५॥
(का०) युक्तस्य सर्वदा भानश्चिन्तासहकृतोऽपरः।
(मुक्का०) युक्तस्य तावद्योगजधर्मसहायेन मनसा आकाशपरमारवा. दिनिखिलपदार्थगोचरज्ञानं सर्वदैव भवितुमर्हति । द्वितीयस्य चिन्ता. विशेषोऽपि सहकारीति । .
इति श्रीविश्वनाथपञ्चाननभट्टाचार्यविरचितायां
सिद्धान्तमुक्तावल्याम्प्रत्यक्षखण्डम् ।
(प्रभा०) तृतीयमलौकिकं सन्निकर्ष विभजते परममूले-“योगज"-इति । "योगाज्जातो योगज" इति व्युत्पत्तिलभ्यमर्थमाह-"योगाभ्यासजनितो धर्मविशेषः" इति । योगस्तु-चित्तवृत्तिनिरोधः । तथाच पारमर्ष सूत्रम् - "योगश्चित्तवृत्तिनिरोधः" (१।१ ) इति । सच समाधिरेव । "युज् समाधौ" इत्यस्माद्