________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्षखण्डे
( प्रभा० ) मन्मते = सामान्यलक्षणा प्रत्यासत्तिवादिनो मम सिद्धान्तिनो मते सामान्यलक्षणया=सामान्यविषयकज्ञानरूपेण आद्येन अलौकिकेन सम्बन्धेन सकलधूमोपस्थितौ=धूमत्वेन सकलधूमसाक्षात्कारे कालान्तरीयदेशान्तरीयधूमेऽपि श्रन्यपर्वतादिदेश वृत्तिधूमे श्रतीतानागतादिधूमेऽपि च वह्निव्याप्यत्वसन्देहः = श्रयं वह्निनिरूपितव्याप्याश्रयो नवा इत्याकारकः संशयः सम्भवति-भवितुमर्हति जायत एवेत्यर्थः । तस्मात्सामान्यलक्षणास्वीकारो न निरर्थ इति सिद्धान्तः ।
२०६
अत्राशङ्कथ समाधत्ते - " नच " - इत्यादिना । अक्षराणि प्रायः स्पष्टार्थानि । श्रत्र प्रमेयत्वेन = महाब्यापकेन धर्मेण कार्यकारणभावो नाङ्गीकृतः, किन्तु प्रमेयत्वव्याप्यै. धूमत्वादिभिर्धरेव विशिष्य कार्यकारणभाव इति तात्पर्यम् । तथाच प्रमेयत्वेन सकलपदार्थज्ञाने सत्यपि तत्तद्विशेषरूपत्वेन ज्ञानाभावान्नैव सार्वज्ञ्यापत्तिरिति तु परः सारः ।
सम्प्रतिज्ञानलक्षणास्वीकारे बीजमाह - " * एवम् " - इत्यादिना । स्पष्टम् । "सुरभि चन्दनम्" इत्याकारके भाने सौरभभानं कथं स्यात् = सौरभस्य चातुषविषयनिरूपितत्वं कथमपि न स्यादित्यर्थः । सौरभ त्वप्रकार कलौकिकप्रत्यक्ष साहाय्येन सौरभत्वावच्छिन्न प्रकारक लौकिकप्रत्यक्ष साहाय्येन वा सामान्यलक्षणा प्रत्यासत्तिरेव हेतुरिति प्रकृते द्वितीयसामग्रयाः सहकारिण्याः सवारिक ज्ञानलक्षणाङ्गीकारे प्रयोजनमित्याह – “यद्यपि ” – इत्यादि । " सौरभमानम् " - इति । चाक्षुषे सौरभत्वप्रकारेण सकल सौरभस्य विषयत्वं सम्भवतीत्यर्थः । तथाच - ज्ञानलक्षणा न स्वीकार्येति भावः । " तथापि " - इति । सौरभत्वभानम् = " सुरभि चन्दनम्" इति चाक्षुषे स्वरूपेण सौरभत्वधर्मप्रतीतिस्तु ज्ञानलक्षणया - ज्ञानलक्षणा प्रत्यासन्यैव । तदानी सौरभत्वांशे नैव किमपि धर्मान्तरं गृहीतं येन सामान्यलक्षणयैव निर्वाह: स्यात्. तस्मात्तदग्रहे सामान्यलक्षणया न सौरभत्वभाननिर्वाह इति भावः ।
ज्ञानलक्षणाया अङ्गीकारे हेत्वन्तरमप्याह -- “ एवम् " - इति । धूमत्वेन = धूमत्वधर्मपुरस्कारविधया धूलीपटल ज्ञातम् = धूलीपटलस्यापि धूमत्वेन ज्ञानज्जातम् । यत्र धूलीपटले " श्रयं धूम' इति ज्ञानम्भ्रमात्मकञ्जातम्, तत उत्तरं “धूममहञ्जनामि" इत्याकारकमनुव्यवसायज्ञानमभूत्, तत्र = अनुव्यवसाये ज्ञानविषयकज्ञाने अर्थात् धूलीपटलस्य भानम् = ज्ञानम्, ज्ञानलक्षणया = ज्ञानलक्षणयैव । नहि धूलीपटलेन सह मनसो लौकिकः सन्निकर्षः, येन स्वविषयधूमत्ववत्तासम्बन्धेन सामान्यलक्षणयैव निर्वाहे
एतावता सामान्यलक्षणायाः कारणत्वानङ्गीकारे दोष उक्तः सम्प्रति ज्ञानलक्षणाया अङ्गीकारे दोषमाहेत्यर्थः ।
+ एतावता स्थलविशेषे जाते: स्वरूपतो भाननिर्वाहार्थं ज्ञानलक्षणाया आवश्यकत्त्रमुपपाद्य इदानीं स्थलविशेषे जात्यतिरिक्तपदार्थस्य किञ्चिद्रूपेण भाननिर्वाहार्थमपि ज्ञानलक्षणाया आवश्यकत्वमुपपादयति- " एवम्" इत्यादिनेति प्राचीनः श्रीनृसिंहः ।