________________
सामान्यलक्षणाज्ञानलक्षणयोविवेकः ।
२०५
धूमत्वादिधर्मविशिष्टस्य धर्मिणोः धूमादेलौकिकसाक्षात्कारोत्तरं तस्यैव धूमत्वादेराश्रय. भूतस्य देशान्तरीयकालान्तरीयस्यापि धर्मिणः ज्ञानम् साक्षात्कारञ्जनयति । ज्ञानलक्षणा द्वितीया प्रत्यासत्तिस्तु यद्विषयकज्ञानम्-यस्य सौरभादेरलौकिकम्भानञ्जातं तस्यैव प्रत्यासत्तिः सम्बन्धः, नतु देशान्तरकालान्तरवर्तिनोऽपि सौरभादेः । एवं ज्ञानत्वेन रूपेण उभयोः प्रत्यासत्यो: साम्येऽपि विभिन्नफल जनकत्वेन प्रकारेण परस्परम्भेद एवेति भावः । एनमर्थ स्पष्टीकर्तुमाह-"अत्रायमर्थ"- इति । अत्र सामान्यलक्षणाज्ञानलक्षणयोर्मध्ये । अयमर्थः अयम्भाव इत्यर्थः । “प्रत्यक्षे"--इति । तथाचसन्निकर्षप्रत्यक्षनिरूपितविषयत्वव्यापकत्वेन ब्यापकीभूतसन्निकर्षाभावे व्याप्यभूतविषयस्याप्यभावप्रसङ्गादित्याशयमनुरुध्यैव दिनकरभट्टेनापि प्रत्यक्षविषयताया सन्निकर्षाश्रयत्वव्याप्यत्वादित्युक्तम् । “धृमत्वेन सकलधूमानाम्" इति । अर्थात्सामान्यलक्षणाया अस्वीकारे सकलधूमवह्निषु सन्निकर्षाभावे "सर्वे धूमा:” “सर्वे वह्वयः" इत्याकारकं सकलधूमविषयकं सकलवह्निविषयकञ्च प्रत्यक्षम् , सकलधूमादिषु तद्विषयत्वञ्चाऽनुभवसिद्धं कथम्भवेत् केन प्रकारेण निर्वहेदित्यर्थः । तदर्थम्-धूमत्वेन सकलधूमानां वह्नित्वेन सकलवह्वीनाम्भानार्थ सामान्यलक्षणा स्वीक्रियते।
अत्राशय समाधत्ते–'नच"-इत्यादिना । “सकलवह्निधूमभाना. भाव"-इति । यदि देशान्तरकालान्तरवृत्योः वह्विधूमयोनिं न स्यात् तदा को दोष इति शङ्काग्रन्थार्थः।
प्रत्यक्षधूमे-इन्द्रियसन्निकृष्टधूमे महानसवृत्तिधूमे इत्यर्थः । वह्निसम्बन्धस्य= यत्र धूमस्तत्र वह्निरित्याकारस्य व्याप्तिरूपस्य सम्बन्धस्य गृहीतत्वात्-चक्षुषा प्रत्यक्षीकृतत्वात् अन्यधूमस्य-देशान्तरीयकालान्तरीयस्य (पर्वतादिवृत्तेः) धूमस्य अनुपस्थितत्वात् चक्षुषाऽसन्निकृष्टत्वात् धूमो वह्निव्याप्यो नवा धूमो वह्निनिरूपितव्याप्यताश्रयोऽस्ति नवा इत्याकारः संशयः-पक्षतापादक: सन्देहः न स्यात् नैव भवेत् , तदभावे च पर्वतादौ वयादेरनुमानमेव नोदीयादिति समाधानग्रन्थार्थः। .
(मुक्ता०) मन्मते तु सामान्यलक्षणया सकलधूमोपस्थितौ कालान्तरीयदेशान्तरीयधूमे वह्निव्याप्यत्वसन्देहः सम्भवति । नच सामान्यलक्षणाखीकारे प्रमेयत्वेन सकलप्रमेयमाने जाते सार्वश्यापत्तिरिति वाच्यम् , प्रमेयत्वेन सकलप्रमेयशाने जातेऽपि विशिष्य सकलपदार्थानामज्ञातत्वेन सार्वश्याभावात् । एवं ज्ञानलक्षणाया अस्वीकारे सुरभि चन्दनमिति ज्ञाने सौरभस्य भानं कथं स्यात् । यद्यपि सामान्यलक्षणयाऽपि सौरभमानं सम्भवति, तथापि सौरभत्वस्य भानज्ञानलक्षणया । एवं यत्र धूमत्वेन धूलीपटलम्ज्ञातन्तत्र धूलीपटलस्यानुव्यवसाये भानज्ञानलक्षणया।