________________
२०४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
(मुक्का०) ननु-ज्ञानलक्षणा प्रत्यासत्तिर्यदि शामरूपा सामान्यलक्षणापि ज्ञानरूपा तदा तयोर्भदो न स्यादत प्राह-सामान्य लक्षणा प्रत्यासत्तिर्हि तदाश्रयस्य ज्ञानञ्जनयति । ज्ञानलक्षणा प्रत्यासत्तिस्तु यद्विषयकज्ञानं तस्यैव प्रत्यासत्तिरिति । अत्रायमर्थः-प्रत्यक्ष सन्निकर्ष विना भानं न सम्भवति । तथाच सामान्यलक्षणां विना धूमत्वेन सकलधूमानां वह्नित्वेन सकलवह्नीनाञ्च भानं कथम्भवेत्तदर्थ सामान्यलक्षणा वीक्रियते । नच सकलवह्निधूमभानाभावे का क्षतिरिति वाच्यम्, प्रत्यक्ष धूमे वह्निसम्बन्धस्य गृहीतत्वादन्यधूमस्य चानुपस्थितत्वाद् “धूमो वह्निव्याप्यो नवा" इति संशयानुपपत्तेः।
(प्रभा०) ज्ञानलक्षणासन्निकर्ष लक्षयन् सामान्यलक्षणाज्ञानलक्षणयोरभेदशङ्का वारयितुं शङ्कते– “ननु"-इति । परममूले -"विषयी यस्य" इति । यस्य सौरभादेः विषयी-ज्ञानं तस्यैव सौरभादेर्व्यापारः सन्निकर्षः ज्ञानलक्षणः ज्ञानलक्षणा प्रत्यासत्तिर्द्वितीयोऽलौकिक: सन्निकर्ष इत्यर्थः ।
अयमाशयः-यत्र पूर्वस्मिन्दिवसे कश्चित् पुरुषः कुत्रचिद् हट्टे किञ्चिच्चन्दनखण्डनं घात्वा “सुरभि चन्दनम्” इति निश्चितवान् , स एव परदिने तत्र गतः, केनचित् ऋत्रा "चन्दनखण्डमिदं सुरभि नवा" इति पृष्टोऽघ्रात्वैव "सुरभि चन्दनम्" इति यद्वदति तदा तस्य प्रतिप्रतुः दर्शिताकारज्ञानं सौरभञ्चन्दनञ्चन्दनत्वञ्चैतस्त्रितयमेव विषयीकरोति । तत्र यथाक्रमं संयोगसन्निकर्षण चन्दनज्ञानम् , चतुःसंयुक्तसमवायसम्बन्धेन चन्दनत्वज्ञानं यदस्ति तल्लौकिकप्रत्यक्षमेव लौकिकसन्निकर्षजन्यत्वात् । यत्तघाणेन्द्रियसम्बन्धमन्तरापि चन्दनखण्डे तस्य सौरभभानञ्जातं तत्तु 'चतुःसंयुक्तमन:संयुक्तात्मसमवेतज्ञानरूपेण" "चतुःसंयुक्तमन:संयुक्तात्मसमवेतसंस्काररूपेण" वा ज्ञानलक्षणाख्येन सन्निकर्षेण जनितमलौकिकमेव । एवंरूपा या सौरभसाक्षात्कारहेतुः प्रत्यासत्ति: सा "ज्ञानलक्षणा" प्रत्यासत्तिरित्युच्यते ।
अयम्भावः-"एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकम्" इत्यस्ति नियमः, तेन पूर्व प्राणेन सौरभसाक्षात्कारवतः प्रमातुः पुनर्यद् चन्दनखण्डस्य चक्षुषा दर्शनं ततः सौरभस्मृतिः, सौरभस्मृतिहेतवः उबुद्धाः संस्कारा वा “सुरभि चन्दनम्" इत्याकारकं सौरभविषयकञ्चाक्षुषम्प्रत्यक्षञ्जनयन्ति । यद्यपि सौरभप्रत्यक्षकरणे चतुषः स्वसामर्थ्य नास्ति, तथापि उक्तेनालौकिकेन सम्बन्धेन चक्षुषाऽपि सौरभभानं यत्, तदेव द्वितीयमलौकिकम्प्रत्यक्षमित्याशयवान् उभयोः प्रत्यासत्योर्भेदं स्पष्टीकरोति-- 'सामान्यलक्षणाप्रत्यासत्तिः" इत्यादिग्रन्थेन ।
उक्तः सिद्धान्तः । अक्षराणित्वेवं योजयितव्यानि-सामान्यलक्षणाज्ञानलक्षणाप्रत्यासत्योरेष भेदः यत् सामान्यलक्षणा अाद्या प्रत्यासत्ति:, तदाश्रयस्य