________________
सामान्यलक्षणाया: सामग्री, ज्ञानलक्षणा च ।
वसेयः । तेन=लक्षणपदस्य विषयरूपार्थकरणेन । "इन्द्रियसम्बद्धविशेष्यकं सामान्यविषयकज्ञानम्प्रत्यासत्तिः” इति सिद्धान्तलक्षणमित्यर्थः । एवञ्च - निर्विकल्पकसाधारणं स्मरणसाधारणञ्च प्रत्यासत्तिः । तथाच घटत्वप्रकारकप्रत्यक्षत्वं कार्यतावच्छेदकम्, ज्ञानञ्च कारणतावच्छेदकम् । स्वप्रकारीभूतघटत्वाश्रयत्वञ्च कार्यतावच्छेदकसम्बन्धः, स्वविषयकघटत्वाश्रयत्वञ्च कारणतावच्छेदकसम्बन्धः ।
२०३
घटत्व
यत्रैकं घटमवलोक्य सकलघटानाज्ञानञ्जातं तत्र घटत्व सामान्यज्ञानसन्निकर्षेण सर्वेषां घटत्ववताम् (घटानाम् ) भानञ्जायते सामान्यसन्निकर्षेण । सोऽयं सन्निकर्ष श्रतीतानागतानामिन्द्रियासन्निकृष्टानां सामान्याश्रयाणां सर्वासां व्यक्तीनामलौकिकम्प्रत्यक्षञ्जनयतीति सिद्धान्तः । यत्तु - दीधित्यामुरुं यत्रेन्द्रियसंयुको धूमादिस्तद्विशेष्यकं धूम इति ज्ञानञ्जातम्, तत्र ज्ञाने धूमत्वम्प्रकारः तत्र धूमत्वेन सन्निकर्षेण “धूमाः” इत्येवंरूपं सकलधूमविषयक ज्ञानञ्जयते, तत्पूर्वीयसिद्धान्ताभिप्रायेणेति बोध्यमित्याशयः ।
(का० ) तदिन्द्रियजतद्धर्मबोधसामग्रयपेक्ष्यते ॥ ६४ ॥
( मुक्रा० ) ननु - चक्षुः संयोगादिकं विनापि सामान्यज्ञानं यत्र वर्त्तते. तत्र सकलघटादीनाञ्चाक्षुषादिप्रत्यक्षं स्यादत आह- अस्यार्थः - यदा बहिरिन्द्रियेण सामान्यलक्षणया ज्ञानञ्जननीयं तदा यत्किञ्चिद्धर्मिणि तत्सामान्यस्य तदिन्द्रियजन्यज्ञानस्य सामग्री अपेक्षिता । साच सामग्री चक्षुः संयोगा लोकसंयोगादिकम् । तेनाऽन्धकारादौ चक्षुरादिना तादृशं ज्ञानं न जायते ॥ ६४ ॥
( प्रभा० ) लौकिकस्वभावत्वात्सामान्यज्ञानसन्निकर्षस्य इन्द्रियसम्बन्धं विनापि सकलव्यक्ति साक्षात्कारः स्यादित्यात्क्षेपवारणाय " ननु" - इत्यादि प्रथ्नाति । परममूले - " तदिन्द्रियज " - इति । तत्तदिन्द्रियजन्यः यस्तद्धर्मबोधः अर्थात् सामान्य-' ज्ञानमेव तस्य सामग्री चक्षुरालोकसंयोगादिका साप्यत्र प्रत्यक्षे अपेक्षिता । घटोत्पत्तौ दण्डचक्रादिरिव श्रालोकसंयोगादिकमपि श्रलौकिकप्रत्यचे सहकारिकारणमित्यर्थः । बहिरिन्द्रियेण = मनस्त्वान्येन्द्रियावभाजको पाधिविशिष्टेनेन्द्रियेण सामान्यलक्षणया निरुक्रया ज्ञानञ्जननीयं तदा यत्किञ्चिद्धर्मिणि= घटत्वादिधर्मिणि तत्सामान्यस्य = घटत्वादेः तदिन्द्रियजन्यज्ञानस्य सामग्री = श्रालोकसंयोगादिरूपा । एतत्स्वयं विवृणोति - " साच" - इति । अस्या अपेक्षायाः फलं दर्शयति - " तेन " - इति । " तादृशज्ञानम् ” – इति । अलौकिकः सकलघटादिसाक्षात्कारश्वानुषः । त्वाचस्तु स्यादेव तत्रालोकसंयोगस्यानपेक्षणात् ॥ ६४ ॥
,
-
(To) विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः ।