________________
२०२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
विभज्यान्वयः । “तदनन्तरम्" इति । "भूतलं संयोगेन घटवत् , कपालः समवायेन घटवान्" इत्याकारकलौकिकसाक्षात्कारद्वितीयक्षणे "सर्वाणि भूतलानि संयोगेन घटवन्ति, सर्वे कपालाः समवायेन घटवन्तः' इत्याकारकमलौकिकज्ञानजायते । तत्रेदम्बोध्यम् अर्थात् एतादृशस्थले ज्ञायमानमनित्यं सामान्यमेव प्रत्यासत्ति रिति बोध्यम् । सर्वेषामेव तद्घटवताम् । “भूतलादीनाम्-इति । अत्रादिना संयोगेन तद्घटाधिकरणद्रव्यान्तरपरिग्रहः । अत्रापि यो विशेषम्तमाह- "परन्तु"-. इति। "येन सम्बन्धेन"- इति । इन्द्रियसम्बदविशेष्यकज्ञानीययत्सम्बन्धावच्छिन्नप्रकारता विशिष्टम्भवति ।
अयमाशयः-स्वाधिकरणे येन सम्बन्धेन सामान्यज्ञातम्भवति, तेनैव सम्बन्धेन तत्सदृशेष्वधिकरणेषु अलौकिकप्रत्यक्षहेतुः । अन्यथा समवायसम्बन्धेन ज्ञानप्रकारीभूतघटत्वादिसामान्यमपि कालाकाशादिपदार्थानामलौकिकसाक्षात्कारहेतुः स्यात् । दर्शितरीत्या तु घटत्वादिसामान्यं घटाद्यधिकरण एव समवायसम्बन्धेन ज्ञातं सत् तेषामेवालौकिकसाक्षात्कारञ्जनयितुं समर्थ नान्यस्येति भावः । “किन्तु"-इति । एवञ्चेत्यर्थः । उक्नेन प्रबन्धेन प्राचीनमतरीत्या ज्ञायमानसामान्यस्य प्रत्यासत्तित्व. मुपपादितं सम्प्रति-"प्रासत्तिराश्रयाणाम्”- इत्यादिमूलाभिहितं नवीनमतरीत्या सिद्धं सामान्यज्ञानस्य प्रत्यासत्तित्वं सिद्धान्तयितुं नवीनमतं दूषयितुमुपक्रमते"किन्तु"-इति । “यत्र"- इति । तद्घटनाशानन्तरम् भूतलाद्यधिकरणकघटध्वंसोत्तरम् । तद्घटवतः स्मरणम्="तद्भूतलं घटवदासीत्" इत्याकारकं सरणजातम् । तत्र-तदा सामान्यस्य समानरूपेण प्रतीयमानस्य घटस्य तदानीमभावात् , तस्यैव च तत्तदधिकरणेषु ज्ञानसम्बन्धरू त्वात् तदभावे तद्वत्तासम्बन्धेन सर्वेषां तद्घटवताम्भानम् घटीयसकलाधिकरणज्ञानमलौकिकं न स्यादित्यर्थः । दूषणान्तरमप्याह"किञ्च'"- इति । यत्र "अयङ्घट" इति इन्द्रियसम्बद्धविशेष्यकं घटज्ञानञ्जातम्-पूर्वस्मिन्दिवसेऽभूदित्यर्थः । तत्र परदिने द्वितीयस्मिन् दिवसे इन्द्रियसम्बन्धं विनापि चतु:संयुक्रसमवायसन्निकर्ष विनापीत्यर्थः । "तादृशज्ञानम"-इति । "सर्वे घटा घटत्ववन्तः” इत्याकारकज्ञानम्परदिने कुतो न स्यादित्यर्थः । ज्ञानसामग्रीसत्वे ज्ञानस्यावश्यम्भावित्वादिति भावः । "तस्मात्"-इति । उक्नदोषद्वयसत्त्वादित्यर्थः । सामान्यविषयकज्ञानम्प्रत्यासत्तिः अर्थात् सामान्यमानं न प्रत्यासत्तिः-अलौकिकः सन्निकर्षो नं मन्तव्यः, किन्तु सामान्य विषयीकुर्वदेव यज्ञानं तदेव प्रत्यासत्तिः । श्राद्योऽलौकिकः सन्निकर्ष इत्याशयेन दर्शितदोषोद्धाराय "आसत्तिराश्रयाणान्तु"-इति कारिका व्याख्याति-"प्रासत्तिः" इति । श्राश्रयाणां यजातीयेषु इन्द्रियसग्निकर्षः तेषामिन्द्रियाऽसन्निकृष्टानामपि प्रासत्तिः सन्निकर्ष इति यावत् । एतदेव स्पष्टयति"तथाच"-इत्यादिना। सामान्य लक्षणं विषयो यस्य तत्सामान्यविषयकमित्यर्थोऽ.