________________
सामान्यलक्षणाया: सिद्धान्तलक्षणम् ।
२०१
श्व"-इति । परन्तु इन्द्रियसम्बद्ध विशेष्यकज्ञानप्रकारीभूतं सामान्यम्प्रत्यासत्ति. रित्याकारको यः सम्बन्धो दर्शितः, तस्योपयोगः बहिरिन्द्रियस्थल एव । मानसालौकिकप्रत्यक्षविषये तु ज्ञानप्रकारीभूतं सामान्यमात्रम्प्रत्यासत्तिरिति विभागं करोति"मानसस्थले तु"-इति । ज्ञाने प्रकारीभूतं विशेषणीभूतं सामान्यम्प्रत्यासत्तिः । अस्य विभागस्य फलमाह-"अत" इति । अस्य ग्रन्थस्यायमाशयः-यत्र प्रत्यक्षायोग्यस्यापि पिशाचादे: “अत्र बटे पिशाच" इति शाब्दज्ञानञ्जातम्, तत उत्तरस्मिन् क्षणे "सर्वे पिशाचाः पिशाचत्ववन्तः" इत्याकारको मानसो बोधः ज्ञानम् , सकलपिशाचविषयकः । उपपद्यते जायत एवेत्यर्थः । एवञ्च--तत्रेन्द्रियसम्बन्धाभावात् नोक्तविभागं विना निर्वाह इति भावः ।
विभागकरणे तु "ज्ञान"पदेन शाब्दज्ञानमपि धर्तुं शक्यते, तत्र प्रकारीभूतम्पिशाचत्वम्, तदेव-"मनोजन्य ज्ञानप्रकारीभूतपिशाचत्ववत्ता"सम्बन्धेन सकलपिशाचविषयकालौकिकसाक्षात्कारहेतुरिति तु परः सारः ॥ ६३ ॥
(मुक्का०) परन्तु समानानाम्भावः सामान्यम् । तच्च क्वचिन्नित्यं धूमत्वादिः, कचिच्चानित्यं घटादि । यत्रैको घटः संयोगेन भूतले समवायेन कपाले ज्ञातस्तदनन्तरं सर्वेषामेव तदघटवताम्भूतलादीनां कपालादीनां वा ज्ञानम्भवति तत्रेदम्बोध्यम् । परन्तु सामान्यं येन सम्बन्धन ज्ञायते, तेन सम्बन्धेनाधिकरणानाम्प्रत्यासत्तिः । किन्तु-यत्र तद्घटनाशानन्तरं तघटवतः स्मरणातम्, तत्र सामान्यलक्षणया सर्वेषां तदघटवताम्भानं न स्यात् । सामान्यस्य तदानीमभावात् । किञ्चेन्द्रियसम्बद्धविशेष्यकं घट इति ज्ञानं यत्र जातम् , तत्र परदिने इन्द्रियसम्बन्धं विनापि तादृशज्ञानप्रकारीभूतसामान्यस्य सत्त्वात्तादृशज्ञानं कुतो न जायते, तस्मात्सामान्य. विषयकज्ञानम्प्रत्यासत्तिनतु सामान्यमित्याह--
(का०) आसत्तिरराश्रयाणान्तु सामान्यज्ञानमिष्यते ।
' (मुक्ता०) प्रासत्तिः प्रत्यासत्तिरित्यर्थः । तथाच सामान्यलक्षणमित्यत्र लक्षणशब्दस्य विषयोऽर्थः । तेन सामान्यविषयकज्ञानम्प्रत्यासत्ति. रित्यर्थों लभ्यते । ___(प्रभा०) आसत्तिराश्रयणान्त्विति (सिद्धान्तलक्षणविधया) मूलमवतारयितु. भूमिकामाह-"परन्तु"-इति । ® समानानां तुल्यानामित्यर्थः । विवक्षितं सामान्यं विभजते-"तच्च"-इति । अनित्यं सामान्यमभिनीय दर्शयितुमाह“यत्र"-इति । भूतले संयोगेन ज्ञातः, कपाले स्वावयवे समवायेन ज्ञात इति ।
* प्रकृते-सामान्यपदं यौगिकमेव नतु पारिभाषिकमिति भावः। .