________________
२००
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुकावल्याः [प्रत्यक्षखण्डे
येन सकलधूमानाम् अतीतानागतानां दूरविप्रकृष्टानामिन्द्रियासम्बद्वानामपि धूमत्वाश्रयाणाम् सर्वेषां धूमानाज्ञानञ्जायते, धूमत्वस्य सकलधूमव्यक्तिष्वनुगतत्वात् । अर्थात् एकस्मिन् धूमे इन्द्रियसम्प्रयुक्ते सति यत् “धूमाः" इति सकलधूमव्यक्तीनाम्भानम्भवति, तत्र "स्वजन्यज्ञानप्रकारीभूतधमत्ववत्ता" नाम अलौकिकः सन्निकर्षों हेतुः । ॐ प्रथमक्षणे पुरोवर्तिधूमस्य लौकिकज्ञानम् , ततो द्वितीयक्षणे उनसम्बन्धेन सकलधूमभानञ्चाक्षुषमेव । अत्र "स्व"पदेन चक्षुरादीन्द्रियग्रहणम् , तजन्यज्ञानम् "अयं धूमः” इत्याकारकं लौकिकसन्निकर्षजन्यम्, तत्र प्रकारीभूतं दर्शितरीत्या धूमत्वमेव, तद्वत्ता में धूमन्वधर्मसम्बन्धः सकलधूमेषु विद्यत एवेति उल्लालौकिक. सम्बन्धो निर्वाहितो भवति । धूमत्वम्-इन्द्रियसम्बद्धधूमादिविशेष्यकधूमत्वपकारक. ज्ञाननिरूपितप्रकारताविशिष्टं यदा भवति तदा धूमत्वेन-निरुकप्रकारताविशिष्टधूमत्वेन सकलधूमविषयकमलौकिकम्प्रत्यक्षम । तथाच -धूमत्वस्य नित्यसम्बन्धत्वेऽपि न सर्वदा सकलधूमविषयकप्रत्यक्षापत्तिरिति भावः।
ननु-इन्द्रियसम्बद्धेत्यादि गुरुभूतं लक्षणं विहाय "प्रकारत्वेनेन्द्रियसम्बद्धम्' इत्येव प्रत्यासत्ति: स्वीक्रियताम् । भवति हि धूमचक्षुःसंयोगानन्तरम्प्रकारत्वेन धूमत्वमिन्द्रियसम्बद्धमिति, अत अाह-“यदि”- इति । अस्यायमाशयः- यदा पुरोवर्तिनि धूलिपटले "अयं धूम” इत्याकारकम्भ्रमात्मकज्ञानञ्जातम् , तदा "सकलधूमविषयकम्"-इति । “धूमा' इत्याकारकमित्यर्थः । ज्ञानं न स्यात्-नैव भवेत् । तत्र हेतुमाह-"धूमत्वेन"-इति । तत्र-तदा धूमत्वेन-धूमवृत्तिसामान्येन सहेति शेषः । इन्द्रियसम्बन्धाभावात् चतुःसंयुक्तसमवायसन्निकर्षाभावादित्यर्थः । वस्तुत इन्द्रियसम्बन्धो धूलीपटलेनैवेति परमार्थः । “मन्मते तु"-इति । मम मते तु नायं दोष: । किन्तु-तत्रापि सकलधूमविषयकज्ञानम्भवितुमर्हत्येवेति । अर्थात् इन्द्रियसम्बद्धविशेष्यकज्ञाने प्रकारीभूतसामान्यम्प्रत्यासत्तिरिति मते तु धूलीपटले धूमभ्रमोत्तरं सकलधूमविषयकज्ञानाऽनुपपत्तिरूपो दोषो नेत्यर्थः । धूलीपटलेऽपि इन्द्रियसम्बद्धविशेष्यकधूलिपटलविशेष्यकधूमत्वप्रकारकत्वसत्त्वादित्यर्थः । सुबोधमन्यत् । "इदश्च"-इन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतसामान्यस्य प्रत्यासत्तित्वकथनम् ।
पुरोवर्तिपदार्थे इन्द्रियसम्बन्धो लौकिको ग्राह्य इत्याह-"इन्द्रियसम्बन्ध * सकलधूमज्ञानक्रमं दर्शयितुमाह--"प्रथमक्षणे"--इति । धूमनिष्ठाधिकरणतानिरूपिता धूमत्वनिष्ठाधेयतेति गूढाभिसन्धिः ।
केचित्तु-"ननु गुरुत्वत्वेन यत्किञ्चिद्गुरुत्वोपस्थित्यनन्तरं सकलगुरुत्वविषयक• मानसप्रत्यक्षाऽनुपपत्तिः, गुरुत्वेन सह मनसः लौकिकसन्निकर्षस्य, गुरुत्वे लौकिकविशेष्यताया.
श्चाऽभावात् तादृशलौकिकविशेष्यताशालिमानसप्रकारताविशिष्टगुरुत्वत्वरूपसामान्यस्याऽप्रसिद्धत्वादित्यत आह--"इदम्च"-इति।