________________
सामान्यलक्षणा ।
2
१६६
"इन्द्रियसम्बद्ध” – इति । इन्द्रियसम्बद्धं विशेष्यं यस्य तदिन्द्रियसम्बद्धविशेष्यकं तादृशं यज्ज्ञानं तत्र प्रकारीभूतं यत् सामान्यं धूमत्वादि तत्सामान्यस्वरूपमेव प्रत्यासत्तिः । श्रर्थात् तादृशं सामान्यम् " घटे घटत्वं धूमे धूमत्वम्" इत्यादि बोध्यम् । एतदुक्तम्भवति - यथा घटादौ चतुः सन्निकर्षानन्तरम् "अयङ्घट: प्रयन्धूमः” इत्याकार कम्प्रत्यक्षञ्जातम् तस्य कारणं घटादिना सह चक्षुषः संयोगः सन्निकर्षः । लौकिकः=प्रागुक्तः, तादृशसन्निकर्षजन्यज्ज्ञानं घटघटत्वे धूमधूमत्वे चेत्युभयमपि विषयी - करोति । तत्र घटं धूमञ्च विशेष्यविधया, घटत्वं धूमत्वञ्च प्रकारविधया विषयीकरोतीत्येतावान्विशेषः । एतदेव स्वयं विशदीकर्तुमाह - " तथाहि " - इत्यादि ।
श्रस्यायमाशयः- “अयं धूमः" इत्याकारके लौकिकसन्निकर्षजन्ये इन्द्रियसम्बद्ध विशेष्य के ज्ञाने धूमत्वादिः प्रकारः । धूमादिनिष्टविशेष्यतानिरूपिता प्रकारता धूमत्वादिनिष्ठा । तादृशज्ञानोत्तरं धूमत्वेन सन्निकर्षेण " सर्वे धूमाः" इत्यलौकिकप्रत्यक्षज्ञानमुत्पद्यते तच्च स्वजन्यज्ञानप्रकारीभूतधूमत्ववत्तासम्बन्धेन सकलधूमविषयकमेव ।
एवञ्च–धूमत्वरूपसामान्यलक्षणाया नित्यत्वेन सर्वदा विद्यमानतया सर्वदा सकलधूमविषयकप्रत्यक्षापत्तिरिति यद्यपि जायेत शङ्का, तथापि केवलसामान्यस्य प्रत्यासत्तित्वाभावात् । दर्शितरीत्या ईदृशप्रकारताविशिष्टसामान्यस्यैव प्रत्यासत्तित्वान्नोकदोषसम्भावनाऽपीति बोध्यम् ।
:
( मुक्का० ) यत्रेन्द्रियसंयुक्तो धूमादिस्तद्विशेष्यकं धूम इति ज्ञानं यत्र जातं तत्र ज्ञाने धूमत्वम्प्रकारः । तत्र धूमत्वेन सन्निकर्षेण धूमा इत्येवंरूपं सकलधूमविषयकञ्च । नञ्जायते । श्रत्र यदीन्द्रियसम्बद्धमित्येवोच्यते तदा धूलीपटले धूमत्वभ्रमानन्तरं सकलधूमविषयक ज्ञानं न स्यात्, तत्र धूमत्वेन सहेन्द्रियसम्बन्धाभावात् । मन्मते तु इन्द्रियसम्बद्धं धूलीपटलम्, तद्विशेष्यकं धूम इति ज्ञानम्, तत्र प्रकारीभूतं धूमत्वप्रत्यासत्तिः । इन्द्रियसम्बन्धश्च लौकिको ग्राह्यः । इदञ्च बहिरिन्द्रियस्थले । मानसस्थले तु "ज्ञानप्रकारीभूतं सामान्यमात्रम्प्रत्यासत्तिः” । अतः शब्दादिना यत्किञ्चित्पिशाचाद्युपस्थितौ मानसः सकलपिशाचादिबोध उपपद्यते ॥ ६३ ॥
-
( प्रभा० ) ईदृशसामान्यस्य प्रत्यासत्तिस्वीकारे नोक्तदोष इत्याह - " यत्र " इति । यदा इत्यर्थ: । इन्द्रियसंयुक्तः - इन्द्रियसम्बद्धः । धूमादिः - श्रादिना घटादिज्ञेयः । " तद्विशेष्यकम् ” – इति । स धूमादिर्विशेष्यो यस्य ज्ञानस्य तत्तद्विशेष्यकम् । “धूम" इति ज्ञानञ्जातमिति शेषः । तत्र = ज्ञाने । “धूमत्व प्रकार " - इति । धूमत्वस्य प्रकारविधया भासमानत्वादिति भावः । धूमत्वमेव अलौकिकः सन्निकर्षः,
-
* इन्द्रियसम्बद्धं धूमादिरेव ।