________________
१६८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्कावल्याः
[प्रत्यक्षखण्डे
संसर्गाभावस्य कदापि न प्रत्यक्षम् । “अन्योन्याभावप्रत्यक्ष तु"-इति । संसर्गाभावभिन्नाभावप्रत्यक्षे तु अधिकरणयोग्यता-अभावाधिकरणस्यैव प्रत्यक्षयोग्यता अपेक्षिता आवश्यकी । अर्थात् यद्यधिकरणं प्रत्यक्षयोग्यं स्यात्, प्रतियोगी प्रत्यक्षयोग्यो भवेन्नवा भवेत् , तदा अन्योन्याभावस्य प्रत्यक्षम्भवत्येव । एतस्य फलमाह"त" इति । "स्तम्भ: पिशाचो न" इति प्रतीत्या स्तम्भरूपाधिकरणे प्रत्यक्षाऽयोग्यस्याऽपि पिशाचस्य भेदः-अन्योन्याभावः चक्षुषा प्रत्यक्ष: । स्तम्भस्य (चाक्षुष). प्रत्यक्षयोग्यतावत्त्वादिति भावः।
(मुला०) एवम्प्रत्यक्षं लौकिकालौकिकभेदेन द्विविधम् । तत्र लौकिकप्रत्यक्षे षोढा सन्निकर्षों वर्णितः। अलौकिकसन्निकर्षस्त्विदानी. मुच्यते
(का०) अलौकिकस्तु व्यापारस्त्रिविधः परिकीर्तितः।
- सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा ॥६३॥
(मुक्ता०) व्यापारः सन्निकर्षः । सामान्यलक्षण इति । सामान्य लक्षणं यस्येत्यर्थः । तत्र लक्षणपदेन यदि स्वरूपमुच्यते, तदा सामान्य स्वरूपा प्रत्यासत्तिरित्यर्थी लभ्यते । तच्चेन्द्रियसम्बद्ध विशेष्यकशाने प्रकारीभूतम्बोध्यम् । तथाहि
(प्रभा०) अलौकिकसन्निकर्षनिरूपणाय पातनिकामाह-"एवम्" इति । कारिका निर्वक्तुमाह-"व्यापार"-इति । धूमत्वादिलक्षणाया इन्द्रियजन्यत्वाभावात् व्यापारस्य च तजन्यत्वे सति तजन्यजनकत्वरूपत्वात् व्यापारत्वकथनमयुक्तमित्यतो "व्यापार"पदं व्याख्याति-"सन्निकर्ष'-इति ।
___ "सामान्यम्" इति समानानाम्भावोऽनागन्तुको नित्यो धर्मः सामान्यम् । पूर्वोक्नं द्रव्यगुणकमैतस्त्रितयवृत्तिः । उनञ्च वात्स्यायनेन-"या समानाम्बुद्धिम्प्रसूते भिन्नेष्वधिकरणेषु, यया बहूनीतरेतरतो व्यावर्तन्ते, योऽर्थोऽनेकत्र प्रत्ययानुवृत्तिनिमित्त तत्सामान्यम्” (न्या० भा० २।२।७१) इति । यथा घटत्वादि जातिः । “लक्षण". शब्दस्य * स्वरूपमप्यर्थः । लक्ष्यते व्यवच्छिद्यत इति लक्षणं स्वरूपमेव असाधारणधर्म इति यावत् । असाधारणधर्मेण हि धर्मी धर्म्यन्तरेभ्यो व्यावर्त्यते यतः । एवं सामान्य लक्षणं स्वरूपं यस्येति बहुव्रीहिसमासाश्रयणे सामान्यस्वरूपा प्रत्यासत्तिरिति प्रथमस्याऽलौकिकसन्निकर्षस्यार्थः पर्यवसितो भवति । प्रत्यासत्तिश्च सम्बन्धः । "तच" इति । सामान्यस्वरूपञ्चेत्यर्थः ।।
ॐ लक्षणपदस्य स्वरूपविषयभेदेनार्थद्वयमपि वर्तते, . तत्सन्देहवारणायाऽऽह-- . "स्वरूप".-इति।