________________
अभावप्रत्यक्ष योग्यताया लापनप्रकारः।
"आलोकसंयोगादिकम्" इति । आलोकसंयोगावच्छिन्नोद्भूतरूपावच्छिन्नमहत्त्वा. वच्छिन्नचक्षुःसंयोगो यत्र यदा वर्तत इति पिण्डीभूतोऽर्थः । "तत्र"-इति । तदेत्युपलक्षणेन ज्ञेयम् । सुगममन्यत् ।
"स्पार्शनप्रत्यक्षन्तु"-इति । त्वाचम्प्रत्यक्षमित्यर्थः । पालोकसंयोगं विनापि स्वाचप्रत्यक्षस्य सत्त्वात् । “यद्यत्र घट: स्यात्तर्हि त्वचा उपलभ्येत" इत्यापादयितुं शक्यत एव । अर्थात् “अन्धकारे घटाभावस्य स्पार्शनम्प्रत्यक्ष नतु चाक्षुषम्" इत्युक्तनियमात् । “न चाक्षुषम्प्रत्यक्षम्” इति । अनुपलम्भे विद्यमानेऽपि निरुक्तयोग्यताविशिष्टस्य तस्य तत्राऽभावादिति भावः । “गुरुत्वादिकम्" इति । श्रादिपदेन धर्माधर्मादिपरिग्रहः । “गुरुत्वादिप्रत्यक्षस्य"-इति । “यदि घटे गुरुत्वं तमुपलभ्येत" इत्याकारमापादानं नार्हति भवितुम् , गुरुत्वस्य सर्वथा प्रत्यक्षायोग्यत्वात् । किन्तु तत् तुलयानुमीयते । एवं धर्मोऽपि न प्रत्यक्षयोग्यतावान् । नहि “यदि मयि धर्मः स्यात् तीपलभ्येत" इति भवत्यापादानम् । किन्तु सुखादिलिङ्गेनानुमेय: ॐ वस्तुतस्तु चोदनालक्षणः । एतेन अधर्मोऽपि व्याख्यातः । - यत्र तूकप्रकारेणापादानं सुशकं तत्राभावः प्रत्यक्ष इत्युक्तमेव । 'यथा वायौ'-इत्यायुदाहरति । "वायौ यदि रूपं स्यात्तर्हि चक्षुषोपलभ्येत" इत्यापादयितुं शक्यते । तत्र कारणन्तु महत्त्वविशिष्टोद्भूतरूपञ्चाक्षुषप्रत्यक्षहेतुरित्यवोचाम । प्रकृते वायौ महत्त्वस्य । सत्त्वेऽपि उद्भूतरूपं नास्ति, तेन वायावुद्भूतरूपाभावस्म चाक्षुषम्प्रत्यक्षम् ।
एवमेव यथाक्रमम् “पाषाणे यदि सौरभं स्यात्तर्हि घ्राणेनोपलभ्येत, यदि गुडे तिकरसः स्यात्तर्हि रसनयोपलभ्येत, यद्यग्नावनुष्ण: स्पर्शः स्यात्तर्हि त्वचोपलभ्येत, यदि श्रोत्रे शब्दः स्यात्तर्हि तेनैवोपलभ्येत, यद्यात्मनि सुखं स्यात्तर्हि मनसोपलभ्येत" इत्याद्यापादानं कत्तुं शक्यते । अतस्तत्र तत्र तत्तदभावस्य घ्राणजादिप्रत्यक्षम्भवत्येव इत्याशयेनाह - "एवमादय"--इति । प्रादिना प्रभायामुद्भूतस्पर्शाभावपरिग्रहः । तत्र-'प्रभायामुद्भूतस्पर्शः स्यात्तर्हि त्वचोपलभ्येत" इत्यापादयितुं सुशकत्वादिति भावः।
___सम्प्रति संसर्गाभावप्रत्यक्षे अन्योन्याभावप्रत्यक्षे च योग्यताभेदं दर्शयति"संसर्गाभावप्रत्यक्ष" इति । त्रिविधः संसर्गाभाव: प्रागभावादिभेदेन पूर्वमुक्तः, तस्य प्रत्यक्षे प्रतियोगिनो घटादेः योग्यता प्रत्यक्षयोग्यता अवश्यमपेच्यते । अर्थात् येन केनापीन्द्रियेण यः प्रतियोगी प्रत्यक्षयोग्यः, तस्यैव प्रागभावस्य, ध्वंसाभावस्य, अत्यन्ताभावस्य वा प्रत्यक्षम्भवति । यस्तु प्रतियोगी सर्वथा इन्द्रियगोचरः, तदीय
* मीमांसकमतमनुरुध्याह-"वस्तुतस्तु"-इति । + अत एव वायो: स्पार्शनम्प्रत्यक्षभित्येकीयमतेन पूर्वमुक्तम् ।