________________
१६६ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे ज्ञाने तत्तदिन्द्रियजन्यसंयोगादिसम्बन्धावच्छिन्नघटत्वाद्यवच्छिन्नप्रकारताशाल्यनाहार्यनिश्चये जाते सति । घटाभावादिकम् घटादिप्रतियोगिकाभाव इत्यर्थः । न ज्ञायते= नैव विषयीक्रियते । तेन तादृशज्ञानत्वावच्छिन्नम्प्रति तादृशनिश्चयत्वावच्छिन्नस्य प्रतिबन्धकत्वेन ।
- अयमाशयः- "यद्यत्र घटादिः स्यात् तर्हि तस्योपलम्भोऽपि स्यात्" इत्याकारा यत्र यदा प्रसक्तिः, तत्रैव उक्तविशेषणतासन्निकर्षण अभावस्य प्रत्यक्षं नान्यत्र नान्यदेति च । तदेतत्स्पष्टीकरोति-"भूतलादौ"- इति ।
सरलतराक्षरार्थस्तु-भूतलादौ अभावाधिकरण इत्यर्थः । घटादिक्षाने "अयङ्घट" इत्याकारके साक्षात्कारे। जाते-सति। घटाभावादिकम-स्वप्रतियोग्यभाव इत्यर्थः । न ज्ञायते-नैव विषयीक्रियते प्रत्यक्षेण इन्द्रियेण प्रमाणेन इति शेषः । तेन प्रतियोगिसत्त्वदशायामभावज्ञानाभावेन । अभावोपलम्भे अभावप्रत्यक्षे । प्रतियोग्युपलम्भाभावः प्रतियोगिनो घटादेः प्रतीत्यभावः । कारणम्-हेतुः; नतु करणमित्यर्थः । परन्तु तत्र प्रतियोग्युपलम्भावे योग्यता वक्ष्यमाणा अप्यपेक्षिता अवश्यमिष्टा । अन्यथा प्रत्यक्षायोग्येष्वपि जलपरमाएवादौ पृथिवीत्वाभावादेः प्रत्यक्ष स्यादिति भावः।
ननु-कीदृशी सा योग्यतेति जिज्ञासायां न्यायचिन्तामणिकारगङ्गेशोपाध्यायमतेन तां निक्ति-"साच"-इति । निरुक्तग्रन्थस्यार्थ स्वयमेव दर्शयति"तदर्थश्च"-इति । तात्पर्यार्थस्तु-यस्मिन्नधिकरणे प्रतियोग्युपलम्भ श्रापादयितुं शक्यते, तत्रैव तत्प्रतियोगिकाभावप्रत्यक्षञ्जायते नान्यत्र । यथा-भूतलाद्यधिकरणे "यदि भूतले घटः स्यात् तर्हि चक्षुषा (भूतलवत्) उपलभ्येत" इति रीत्या घटात्मकस्य प्रतियोगिन उपलम्भः-प्रतीतिः पापादयितुम् अारोपयितुं शक्यते । तस्मादन भूतलादौ * घटप्रतियोगिकाभावप्रत्यक्षम्भवितुमर्हति । यत्र तु नैवमापादयितुं शक्यते, तत्र नाभावः प्रत्यक्षः । यथा-"जलीयपरमाणुषु यदि पृथिवीत्वं स्यात् तमुपलभ्येत" अनया रीत्या पृथिवीत्वारोपेण जलीयपरमाणुषु पृथिवीत्वोपलम्भस्याप्यारोपः कर्त्त न शक्यते, पृथिवीत्वाभावस्य प्रत्यक्षयोग्यत्वेऽपि जलीयपरमाणुषु प्रत्यक्षयोग्यताया अभावात् । योग्यप्रतियोग्युपलम्भाभावोऽभावप्रत्यक्षे हेतुरिति निष्कर्षः ।
अयम्भावः- प्राश्रयप्रत्यक्षमेव जातिप्रत्यक्षप्रयोजकमित्यस्ति नियमः । तेन जलपरमाणुषु यथा जलत्वस्य न प्रत्यक्षम् , तथैव तत्र पारोपितपृथिवीत्वोपलम्भारोपोऽपि न शक्यसम्भवः।
एतदेव दर्शयति-"तथाहि"- इत्यादिना । यत्र भूतलादौ (अभावाधिकरणम् ) । अत्र-यदेत्यपि पूरणीयम् । तेन "यत्र यदा" इति पठित्वाऽर्थविवक्षा ।
___ * घटः प्रतियोगी यस्य तादृशो योऽभावः तस्य प्रत्यक्षमित्यर्थः ।