________________
अभावप्रत्यक्ष योग्यता।
तिकाभावः । श्रोत्रे शब्दाभावः । आत्मनि सुखाभावः। एवमादयस्तत्तदिन्द्रियैर्गृह्यन्ते, तत्तत्प्रत्यक्षस्थापादयितुं शक्यत्वात् । संसर्गाभावप्रत्यक्ष प्रतियोगिनो योग्यता । अन्योन्याभावप्रत्यक्ष त्वधिकरणयोग्यताऽपेक्षिता । अतः स्तम्भादौ पिशाचादिभेदोऽपि चक्षुषा गृह्मत एव ॥५६-६२॥ .... - (प्रभा०) अभावप्रत्यक्ष सहकारिणं वक्तुमाह परममूले- 'यदि स्यात्"इति । एतद्विवृणोति मुक्कावल्याम्-"अत्राभावप्रत्यक्ष"-इति । “योग्याऽनुपलब्धेः” इति । योग्यानुपलब्धिः योग्यस्य प्रत्यक्षयोग्यतावतो घटादेः अनुपलब्धिः= उपलम्भाभावः प्रतीत्यभाव इति यावत् । कारणम् कारणमेव नतु करणमित्यर्थः । उपलम्भः उपलब्धिः प्रतीतिर्ज्ञानमित्यनान्तरम् । अनुपलम्भः अनुपलब्धिः प्रतीत्यभावः इति चानान्तरम् । उक्तमर्थमुपपादयति-"तथाहि"- इत्यादिना । घटादि.
____ * मुक्तावलीकृता यदुक्तम्-संसर्गाभावप्रत्यक्ष प्रतियोगिनो योग्यता, अन्योन्याभाव प्रत्यक्ष त्वधिकरणयोग्यताऽपेक्षिता, अतःस्तम्भादौ पिशाचादिभेदोऽपि चक्षुषा गृह्यते एवेति तत्तस्याऽनवधानतामूलमिति मे प्रतिभाति । तथाहि--ग्रन्थकर्तुरयमाशयः । यदि योग्यस्याऽनुपलब्धियोग्याऽनुपलब्धिरिति षष्ठीतत्पुरुषसमासः । षष्ठयर्थश्च प्रतियोगित्वम्, तदा योग्यप्रतियोगिकाsनुपलब्धिरित्यर्थः । तथासति-"स्तम्भः पिशाचो न" इति स्तम्भे पिशाचभेदस्य प्रत्यक्षत्वं न स्यात्, पिशाचरूपप्रतियोगिनः प्रत्यक्षयोग्यत्वाभावात् । यदि च पिशाचभेदस्य प्रत्यक्षत्व. . सम्पादनाय योग्येऽनुपलब्धियोग्याऽनुपलब्धिरिति सप्तमीसमासाश्रयणं तदा योग्याऽधिकरणकाs
नुपलब्धिरित्यर्थः पर्यवस्यते । यद्यपि प्रत्यक्षयोग्येऽधिकरणे स्तम्भे प्रतियोगिनः पिशाचस्याऽनुपलब्धिसम्भवात् पिशाचभेदप्रत्यक्षोपपत्तिः, तथापि "स्तम्भे पिशाचो नास्ति' इति पिशाचात्यन्ताभावस्यापि प्रत्यक्षत्वापत्तिः स्यात् । तत्र-प्रत्यक्षयोग्ये अधिकरणे स्तम्भे प्रतियोगिनः पिशाचस्यानुपलब्धिसम्भवात् । अतो ग्रन्थकारेण संसर्गाभावप्रत्यक्ष प्रतियोगिनो योग्यता । भेदप्रत्यक्षऽधिकरणयोग्यताऽपेक्षितेति पृथक् पृथगेवोक्तम् । तथापि पिशाचात्यन्ताभावप्रत्यक्षे प्रतियोगिनो योग्यत्वाभावान्न तत्प्रत्यक्षत्वापत्तिः । पिशाचभेदप्रत्यक्षेऽधिकरणयोग्यतासत्त्वात् तत्प्रत्यक्षोपपत्तिः । परमेवम्-पृथक्पृथग्भेदात्यन्ताभावयोः प्रत्यक्षत्वाऽप्रत्यक्षत्वार्थमधिकरणप्रतियोगिनोोग्यत्वविवक्षणेऽपि अधिकरणवायोः प्रत्यक्षत्वपक्षे "वायुर्गुरुत्ववान वा” इति भेदप्रत्यक्षापत्तिः, अधिकरणवायोश्चाs. प्रत्यक्षत्वपक्षे 'वायू रूपवान्न" इति रूपवद्भेदोऽपि प्रत्यक्षो न स्यात ।
अत्यन्ताभावप्रत्यक्षे प्रतियोगिनो योग्यत्वस्यविवक्षणे च जलपरमाणौ पृथिवीत्वात्यन्ताभावप्रत्यक्षापत्ति: स्यात् । पृथिवीत्वस्य प्रतियोगिनो घटादिषु प्रत्यक्षयोग्यत्वात् । तथाचोभयत्र दोषाद् अन्थकृता भ्रमादेवोक्तं संसर्गाभावप्रत्यक्षे प्रतियोगिनो योग्यता, अन्योन्याभावप्रत्यक्षे. चाधिकरणयोग्यतेति । तस्मादत्र “योग्याचासावनुपलब्धिश्च योग्याऽनुपलब्धिः" इति कर्मधारयसमासाश्रयणमेव वरं कर्तव्यम् । अनुपलब्धौ योग्यत्वञ्च मूलकृदुक्तमेव प्रशस्तम् । विस्तरस्त्वन्यतोऽनुसन्धेयः।