________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्ष खराडे
यावत् । यदा " घटाभावद् भूतलम्" इति प्रत्ययः तदा इन्द्रियसम्बद्धविशेषणत्वं सन्निकर्षः। इन्द्रियसम्बद्धम्भूतलं तत्र घटाभावस्य विशेषणत्वात् । यदा तु – “इह भूतले घटो नास्ति" इति प्रत्यय: तदा श्रभावप्रत्यक्षे इन्द्रियसम्बद्ध विशेष्यता नाम सन्निकर्षः । तत्र - -- इन्द्रियसम्बद्धोऽभावः, भूतलस्य विशेषणत्वात् "सप्तम्यन्तं विशेषणम्" इति नियमात् ।
-
एवं समवायस्यापि प्रत्यक्षम्बोध्यम् । परन्तु गौतममते समवायः प्रत्यक्षो नतु वैशेषिकमत इत्यत श्राह — “वैशेषिकमत" - इति । यदि समवायः प्रत्यक्षः स्यात्तर्हि रूपादिसमवायवताम्परमाण्वादीनामपि प्रत्यक्षापत्तिः । किंवा समवायस्यैकतया एकदा भाविभूतसकलसमवायाश्रयव्यक्तीनाम्प्रत्यत्तं स्यात्, सम्बन्धप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वं यत इति काणादानामभिप्रायः ।
गौतमास्तु- सम्बन्धप्रत्यक्षत्वं न कार्यतावच्छेदकम् ; अर्थात् यावदाश्रयप्रत्यक्षं तस्य कारणं नास्ति, सम्बन्धस्य निर्वक्तुमशक्यत्वात् । किन्तु - संयोग प्रत्यक्षत्वमेव कार्यतावच्छेदको धर्मः । समवायस्तु न संयोगः, तस्मादसौ प्रत्यक्षः । धर्मिणोः प्रत्यक्षं संयोगाख्यसम्बन्धविशेषप्रत्यक्षम्प्रत्येव कारणं न तत्सम्बन्धसामान्यप्रत्यक्षताप्रयोजकमित्याहुः ।
ननु - विशेषणतासन्निकर्षस्तु नानाविध इति कथं षड्विधः सन्निकर्ष इत्युक्तमिति शङ्कासमाधानाय “अत्र हि" इत्यारभ्य " एकैव सा गण्यत" इत्यन्तो ग्रन्थो निगदव्याख्यातः । “विशेषणतात्वेन " - इति । तथाच विशेषणतात्वमेकं रूपमादाय षड्विधत्वकथनं नासङ्गतमिति भावः । नन्वेवं संयुक्तसमवायादीनामप्यनुगमः कुतो न कृत इति चेन्न, स्वतन्त्रेच्छुर्मुनिर्नियोगपर्यनुयोगानर्होऽस्ति यतः ।
(मुक्का० ) यदि स्यादुपलभ्येतेति । अत्राभावप्रत्यक्षे योग्यानुपलब्धिः कारणम् । तथाहि - भूतलादौ घटादिज्ञाने जाते घटाभावादिकं न ज्ञायते । तेनाभावोपलम्भे प्रतियोग्युपलम्भाभावः कारणम् । तत्र योग्यताप्य - पेक्षिता । सा च प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जित प्रतियोगिकत्वरूपा । तदर्थश्च प्रतियोगिनो घटादेः सत्त्वप्रसक्त्या प्रसञ्जित आपादित उपलम्भरूपः प्रतियोगी यस्य सोऽभावप्रत्यक्षे हेतुः । तथाहि - यत्राऽऽलोकसंयोगादिकं वर्त्तते, तत्र यद्यत्र घटः स्यात्तर्हि * उपलभ्येतेत्यापादयितुं शक्यते । तेन घटाभावादेरन्धकारे न चाक्षुषप्रत्यक्षम्, स्पार्शनप्रत्यक्षन्तु भवत्येव, श्रालोकसंयोगं विनापि स्पार्शनप्रत्यक्षस्यापादयितुं शक्यत्वात् । गुरुत्वादिकं यदयोग्यन्तदभावस्तु न प्रत्यक्षस्तत्र गुरुत्वादिप्रत्यक्षस्याङपादयितुमशक्यत्वात् । वायौ रूपाभावः । पाषाणे सौरभाभावः । गुडे
* इत्याकारायाः प्रतीतेरभिलापः कर्त्तुं शक्यते इत्यर्थः ।
१६४