________________
प्रभावप्रत्यक्ष विशेषणताप्रकारः ।
इदन्तु बोध्यम्-द्विविधं तावत् प्रत्यक्षं लौकिकमलौकिकञ्चेति । तत्रालौकिकं वक्ष्यति । लौकिकम्प्रदर्शयितुमाह-"अत्र सर्वम्"-इति । अत्र-उक्तकार्यकारणभावस्थले । सर्वम्-चाक्षुषादिभेदेन नानाविधम् । लौकिकम् लौकिकविषयतासम्बन्धेन जन्यम्बोध्यमित्यर्थः । वयमाणमलौकिकम् सामान्यलक्षणाद्यलौकिकसन्निकर्षजन्यम् । इन्द्रियसंयोगादिकं विना=चक्षुरादीन्द्रियेण सह संयोगादिसन्निकर्ष विनेत्यर्थः । आत्मप्रत्यक्षेत्रात्मवृत्तिलौकिकविषयतासम्बन्धेन प्रत्यक्षे । मनःसंयोगः केवलमनःसंयोगः । "अात्मसमवेत" इति । प्रात्मसमवेताः ज्ञानाद्याः । आत्मसमवेतसमवेता: ज्ञानत्वाद्याः । शिष्टं स्पष्टम् ।
(मुक्का०) अभावप्रत्यक्ष समवायप्रत्यक्ष चेन्द्रियसम्बद्धविशेषणता हेतुः। वैशेषिकमते तु समवायो न प्रत्यक्षः । अत्र यद्यपि विशेषणता नानाविधा । तथाहि-भूतलादौ घटाद्यभावः * संयुक्तविशेषणतया गृह्यते । सङ्ख्यादौ रूपाद्यभावः । संयुक्तसमवेतविशेषणतया । सङ्ख्यात्वादी रूपाद्यभावः संयुक्तसमवेतसमवेतविशेषणतया। शब्दाभावः केवलश्रोत्रावंच्छिन्नविशेषणतया । कादौ खत्वाद्यभावः श्रोत्रावच्छिन्नसमवेतविशेषणतया। एवं कत्वाद्यवच्छिन्नाभावे गत्वाभावादिकं श्रोत्रावच्छिन्नविशेषणविशेषणतया। एवं घटाभावादौ पटाभावः चतुःसंयुक्तविशेषणविशेषणतया । एवमन्यदप्यूह्यम् । तथापि विशेषणतात्वरूपेणैकैव सा गण्यते । अन्यथा षोढा सन्निकर्ष इति प्राचाम्प्रवादो व्याहन्येतेति।
(प्रभा०) समवायं विना भावात्मकपदार्थप्रत्यक्ष सन्निकर्ष निरूप्य सम्प्रति अभावसमवाययोः प्रत्यक्ष सन्निकर्ष निरूपयितुमाह-"अभावप्रत्यक्ष"-इति । "इन्द्रियसम्बद्ध" इति । चक्षुरादीन्द्रियसम्बद्धो भूतलादिः, अर्थात् अभावाधिकरणम्, तत्र घटाद्यभावो विशेषणीभूतः विशेषणतारूपा विषयता घटाद्यभावनिष्ठा यथा “घटाभाववद् भूतलम्" इत्याकारायाम्प्रतीतौ तथा भासते, एवमिन्द्रियसम्बद्धो रूपादिरपि समवेतः, तत्र समवायो विशेषणीभूतः । यथा-"रूपी रूपसमवायवान् घट" इत्यत्र विशेषणतारूपा विषयता समवायनिष्ठा । सोऽयमिन्द्रियसम्बद्धविशेषणताख्यः सम्बन्धः "विशेषणविशेष्यभावः सन्निकर्ष" इत्यप्युच्यते ।
अस्याऽयमर्थः- इन्द्रियसम्बद्धविशेष्यत्वम्, इन्द्रियसम्बद्धविशेषणत्वमिति * चक्षुःसंयुक्तम्भूतलं घटाद्यभावस्य तत्र विशेषणत्वात् ।
चक्षुःसंयुक्तो घटादिः, तत्र समवेतं सङ्ख्यादिः तत्र सङ्ख्यादौ विशेषणता रूपाद्यभावस्य । अत्र “सङ्ख्यादौ रूपादिकं नास्ति" इति प्रतीयते "एवं संख्यात्वादौ रूपाद्यभाव" इति । चक्षुःसंयुक्तो घटादिः, तत्र समवेतः सङ्ख्यादिः, तस्मिन् समवेतं सङ्ख्यात्वादिकम्, तत्र विशेषणता रूपायभावस्य । एवमेव सर्वत्र योजनीयम् ।